________________
फक्किकासमन्वित- दीपिकाव्याख्यासमेतः • ७५
अयुतसिद्धलक्षणमाह-ययोरिति । 'नीलो घट:' इति विशिष्टप्रतीति:विशेषणविशेष्यसम्बन्धविषया विशिष्टप्रत्यत्वात् दण्डीतिप्रत्ययवद् इति समवायसिद्धिः । अवयवावयविनाविति । द्रव्यसमवायिकारणम् अवयवः । तज्जन्यं द्रव्यमवयवि ।
[इति समवायपदार्थ: ]
नित्य इति नित्यत्वे सति सम्बन्धत्वं समवायसम्बन्धत्वम् । सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षं कारणं यथा भूतलघटसंयोगे सम्बन्धप्रत्यक्षे वर्तते । घटाकाशसंयोगस्य प्रत्यक्षापत्तिवारणाय यावदिति । ननु समवायस्तु अतीन्द्रियोऽस्ति अतस्तत्सत्वे किं प्रमाणमिति चेत् ? उच्यते, अत्रानुमानं प्रमाणमस्ति, तद् यथा नील इति यथा दण्डविशिष्टपुरुषे विशिष्टप्रत्ययत्वं वर्तते, विशेषणविशेष्यसम्बन्धविषयत्वमपि वर्तते, विशेषणं दण्डः, विशेष्यः पुरुषः, तयोः संयोगसम्बन्धः, तथा विशिष्टप्रत्ययत्वं 'नीलो घट' इति विशिष्टप्रतीत वर्तते । ततश्च विशेषणविशेष्यसम्बन्धविषयत्वमपि वर्तते । तत्र नीलरूपं विशेषणं, घटो विशेष्यः, तयोर्यः सम्बन्धः, संयोगस्तु न भवति, गुणद्रव्ययोस्तदभावात्, द्रव्ययोरेव संयोग इत्युक्तत्वात् तस्मादत्र संयोगातिरिक्तः कश्चन सम्बन्धः सिद्धः । स समवायो भवति इति समवायसिद्धिः । [अभावनिरूपणम् ]
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य ।
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताको ऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । 'यथा घटः पटो न' इति ।
प्रागभावं लक्षयति-अनादिरिति । आकाशादौ अति
७६ • तर्कसंग्रहः
व्याप्तिवारणाय सान्त इति । घटादौ अतिव्याप्तिवारणाय अनादिरिति । प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगिजनकः 'भविष्यति' इति व्यवहारहेतुः प्रागभावः ।
ध्वंसं लक्षयति-सादिरिति । घटादौ अतिव्याप्तिवारणाय अनन्त इति । आकाशादौ अतिव्याप्तिवारणाय सादिरिति । प्रतियोगिजन्यः प्रतियोगिसमवायिकारणवृत्तिः ध्वस्त इति व्यवहारहेतुः ध्वंसः ।
अत्यन्ताभावं लक्षयति - त्रैकालिकेति । अन्योन्याभावे अतिव्याप्तिवारणाय संसर्गावच्छिन्नेति । ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति ।
अन्योन्याभावं लक्षयति तादात्म्येति । प्रतियोगितावच्छेदकारोप्यसंसर्गभेदात् एकप्रतियोगिकयोरत्यन्ताभावान्योन्याभावयोर्बहुत्वम् । 'केवलदेवदत्ताभावात् दण्ड्यभावः' इति प्रतीत्या विशिष्टाभावः । 'एकसत्त्वेऽपि द्वौ न स्तः' इति प्रतीत्या द्वित्वावच्छिन्नाभावः । संयोगसम्बन्धेन च घटवति समवायसम्बन्धेन घटाभावः । तत्तद्घटाभावाद् घटत्वावच्छिन्नप्रतियोगिताकसामान्याभावाश्चातिरिक्तः । एवमन्योन्याभावोऽपि 'घटत्वेन घटो नास्ति' इति व्यधिकरणधर्मावच्छिन्नाभावो नाङ्गीक्रियते । घटे घटत्वं नास्तीति तस्यार्थः । अतिरिक्तत्वे स केवलान्वयी । सामयिकाभावोऽप्यत्यन्ताभाव एव समयविशेषे प्रतीयमानः । घटाभाववति घटानयने अत्यन्ताभावस्य अन्यत्र गमनाभावेऽपि अप्रतीतेर्घटापसरणे सति प्रतीतेर्भूतले घटसंयोगप्रागभावध्वंसयोर्घटात्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते । घटवति तत्संयोगप्रागभावध्वंसयोः असत्त्वाद् अत्यन्ताभावस्याप्रतीतिः । घटापसरणे च संयोगध्वंससत्त्वात् प्रतीतिरिति ।
"केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तौ अभावो न पदार्थान्तरम्" इति गुरवः । तन्न, अभावानङ्गीकारे केवलस्य निर्वक्तु