________________
फक्किकासमन्वित- दीपिकाव्याख्यासमेतः • ७३
[स्थितिस्थापक निरूपणम् ]
अन्यथाकृतस्य पुनस्तदवस्थाऽऽपादक: स्थितिस्थापकः कटादिपृथिवीवृत्तिः ।
[इति गुणा: ]
स्थितिस्थापकं लक्षयति-अन्यथेति ।
सङ्ख्यादयोऽष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः । अन्ये रूपादयो विशेषगुणाः । द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमत्त्वं विशेषगुणत्वम् ।
द्रव्येति द्रव्यविभाजका नवोपाधयः पृथिवीत्वादयः, तन्मध्ये द्रव्यविभाजकं यदुपाधिद्वयं पृथिवीत्वं जलत्वं च तत्समानाधिकरणं किं भवति ? द्रव्यत्वम्, सत्ता संयोगविभागादयः, सामान्यगुणाश्च रूपादयस्तु उपाधिद्रव्यसमानाधिकरणा न भवन्ति तेषां प्रत्येकवर्तित्वात् । अथ तत्र अवृत्तयों या जातयो रूपत्वादयः, तद्वत्त्वं, विशेषगुणत्वम् ।
[इति तर्कदीपिकायां गुणपदार्थ: ] [कर्मनिरूपणम् ]
चलनाऽऽत्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत् सर्वं गमनम् ।
कर्मणो लक्षणमाह चलनेति । उत्क्षेपणादीनां कार्यभेदमाह ऊर्ध्वेति । शरीरेति वक्रतासम्पादनं कर्म आकुञ्चनम्, ऋजुतासम्पादकं प्रसारणमित्यर्थः ।
पृथिव्यादिचतुष्टयमनोमात्रवृत्ति कर्म । पृथिव्यादिचतुष्टयमनोऽतिरिक्ता
७४ • तर्कसंग्रहः
वृत्तित्वे सति पृथिव्यादिचतुष्टमनोवृत्तित्वंं पृथिव्यादिचतुष्टयमनोमात्रवृत्तित्वम् ।
[सामान्यनिरूपणम् ]
नित्यमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद् द्विविधं परापरभेदात् । परं सत्ता, अपरं द्रव्यत्वादि ।
सामान्यं लक्षयति-नित्यमिति । संयोगे ऽतिव्याप्तिवारणाय नित्यमिति । परमाणुपरिमाणादौ अतिव्याप्तिवारणाय अनेकेति । अनुगतत्वं समवेतत्वम् । घटाद्यत्यन्ताभावो घटाद्यनुगतोऽपि असमवेत इति न अभावादौ अतिव्याप्तिः ।
नित्यमिति । नित्यत्वे सति अनेकानुगतत्वं सामान्यस्य लक्षणम् । द्वित्वादिसङ्ख्यासंयोगादौ अतिव्याप्तिवारणाय सत्यन्तम् । अथ परमाणुपरिमाणादौ अतिव्याप्तिवारणाय विशेष्यदलम् । अनेकानुगतत्वं नाम अनेकवृत्तित्वमित्युच्यते चेत्, अत्यन्ताभावान्योन्याभावयोरतिव्याप्तिः, तयोर्नित्यत्वे सति अनेकवृत्तित्वमस्ति, अतोऽनेकसमवेतत्वमिति वक्तव्यम् । अतः परं न दोषः । [विशेषनिरूपणम् ] नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ।
विशेषं लक्षयति नित्येति ।
[समवायनिरूपणम् ]
नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यत्तदवस्थमपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौ । यथा अवयवाऽवयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ।
समवायं लक्षयति नित्येति । संयोगे अतिव्याप्तिवारणाय नित्येति । आकाशादौ अतिव्याप्तिवारणाय सम्बन्ध इति ।