________________
फक्किकासमन्वित - दीपिकाव्याख्यासमेतः • ७१ [तर्कलक्षणम् ]
व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा 'यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्याद्' इति ।
तर्कलक्षणमाह-व्याप्येति । यद्यपि तर्कों विपर्ययेऽन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम् ।
तर्क लक्षयति व्याप्येति । तर्कस्य व्यभिचारशङ्कानिवारकत्वद्वाराऽनुमानप्रमाणे उपयोगित्वमस्ति तेन विपर्ययादयं पृथगुक्तः । [स्मृतिविभागः ]
स्मृतिरपि द्विविधा । यथार्था अयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।
स्मृतिं विभजते - स्मृतिरिति ।
[समाप्तं बुद्धिनिरूपणम् ] [सुखनिरूपणम् ]
सर्वेषामनुकूलतया वेदनीयं सुखम् ।
सुखं लक्षयति- सर्वेषामिति । 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम् ।
सर्वेषामिति । सुखत्वादिजातिमत्त्वं सुखादित्वम् ।
[दुःखनिरूपणम् ]
प्रतिकूलतया वेदनीयं दुःखम् ।
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।
७२ • तर्कसंग्रहः
[धर्माधर्मनिरूपणम् ]
विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽधर्मः ।
[बुद्ध्यादीनामात्ममात्रविशेषगुणकथनम् ]
बुद्ध्यादयो अष्टौ आत्ममात्रविशेषगुणाः बुद्धिइच्छाप्रयत्नाः नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ।
[ संस्कारविभागः ]
संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापक
श्चेति ।
संस्कारं विभजते संस्कार इति । संस्कारत्वजातिमान्
संस्कारः ।
[वेगनिरूपणम् ]
वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । वेगस्याश्रयमाह-वेग इति । वेगत्वजातिमान् वेगः । [भावनानिरूपणम् ]
अनुभवजन्या स्मृतिहेतुर्भावना, आत्ममात्रवृत्तिः । भावनां लक्षयति-अनुभवेति । अनुभवध्वंसे अतिव्याप्तिवारणाय स्मृतीति । आत्मादौ अतिव्याप्तिवारणाय अनुभवेति । स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम् ।
स्मृतेरिति - अनुभवस्य संस्कारजनकत्वं प्राचां मतेऽपि परं नव्यानां मते स्मृतेरपि संस्कारजनकत्वम् ।