________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ६९ अन्वयव्यतिरेकिणापि प्रामाण्यं गृह्यते यथा 'इदं जलज्ञानं' पक्षः, प्रमात्वं साध्यते, तत्सजातीयत्वं लिङ्गं नाम, समर्थप्रवृत्तिजनकत्वं हेतुः, पूर्वज्ञानं दृष्टान्त इति ।
प्रवृत्तिद्विविधा-संवादिनी विसंवादिनी च । तत्र संवादिनी समर्थासफलेति यावत् । विसंवादिनी-असमर्था-विफला इति प्रामाण्ये परतो ग्राह्यत्वमुक्तम् । प्रमाया उत्पत्तौ गुणजन्यत्वं परतस्त्वम्, अप्रमाया उत्पत्ती दोषजन्यत्वं परतस्त्वम् । प्रमा चतुर्धा, ततो गुणानामपि चातुर्विध्यं तदाह-तत्रेति । प्रत्यक्षप्रमायां विशेषणवद् यद्विशेष्यं तेन सह यः इन्द्रियसन्निकर्षः स गुणः । अनुमितौ साध्यवति पक्षे साधनज्ञानं गुणः । योग्यतेति-एकपदार्थेऽपरपदार्थवत्त्वं योग्यता । शुक्तौ 'इदं रजतम्' इत्यादिभ्रमज्ञानेऽप्रामाण्यं तदपि परतोग्राह्यम्, शुक्ती 'इदं रजतम्' इत्यत्र पुरोवर्तिनी इदं पदार्थे रजतत्वाभावस्य ज्ञानेनानुपस्थितत्वात् ।
अत्र 'इदं ज्ञानमप्रमा विसंवादिप्रवृत्तिजनकवाद्' इत्याधुह्यम् । अप्रमाया उत्पत्ती पित्तादिदोषजन्यत्वं परतस्त्वम् ।
नन्विति । न चेति-प्रवृत्ति प्रति विशिष्टज्ञानत्वेन कारणताऽस्ति । अथ शुक्तौ 'इदं रजतम्' इति ज्ञानादपि रजतार्थिनः प्रवृत्तिदृश्यतेऽतो भ्रमज्ञानसिद्धिरिति न वाच्यम्, एतादृशस्थले विशिष्टज्ञानं कारणं न स्वीक्रियते किन्तु अगृहीतभेदग्रहणस्मरणात्मकं ज्ञानद्वयं प्रवृत्तिं प्रति कारणं तेन न भ्रमज्ञानसिद्धिः । ननु 'नेदं रजतम्' इत्यादौ ग्रहणस्मरणात्मकं ज्ञानद्वयं वर्ततेऽतस्तत्रापि प्रवृत्त्यापत्तिरूपोऽतिप्रसङ्ग इति चेत् ? न, उपस्थिते 'इदं' पदार्थे इष्टं रजतं, तस्य भेदोऽन्योन्याभावः, तस्याग्रहो ज्ञानाभावः, तस्यैव प्रवृत्तिजनकत्वं स्वीकृतम्, तेनोक्तप्रयोगे नातिप्रसङ्गः । तत्र उपस्थितेष्टभेदस्य ज्ञानाभावो नास्ति, ज्ञानं वर्तते इत्यर्थः । एतेन सर्वज्ञानानां यथार्थत्वं दृढीकृतम् ।
अथास्य खण्डनम् सत्येति-उपस्थितेष्टभेदाग्रहस्य प्रवृत्ति प्रति कारणत्वे गौरवं स्यात्, अतो लाघवार्थं पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानमेव प्रवृत्ति प्रति कारणं स्वीकर्तव्यम् । ततश्च सत्यं यद्रजतस्थलं तत्र तु इदं ज्ञानं प्रवृत्ति प्रति कारणम्, परं शुक्तार्थिनः प्रवृत्ति प्रति कारणम् इति भ्रमज्ञानसिद्धिः ।
[इति प्रामाण्यविचारः]
७०. तर्कसंग्रहः
[अयथार्थानुभवविभाग:] अयथार्थानुभवस्त्रिविधः । संशयविपर्ययतर्कभेदात् ।
अयथार्थानुभवं विभजते-अयथार्थ इति । स्वप्नस्य मानसविपर्ययरूपत्वात् न त्रैविध्यविरोधः ।
[संशयलक्षणम्] एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वा इति ।
संशयलक्षणमाह-एकेति । 'घटपटौ' इति समूहालम्बनेऽतिव्याप्तिवारणाय एकेति । 'घटो द्रव्यम्' इत्यादौ अतिव्याप्तिवारणाय विरुद्धेति । पटत्वविरुद्धघटत्ववान् इत्यत्र अतिव्याप्तिवारणाय नानेति ।
संशयलक्षणमाह-एकेति । एकस्मिन् धर्मिणि विरुद्धनानावैशिष्ट्यावगाहिज्ञानत्वं संशयत्वम् । घटो द्रव्यमिति-अत्र घटे घटत्वं वर्तते परमनयोविरोधो नास्ति, सहावस्थानमित्युक्तत्वात् । पटत्वेति-अत्र 'इदं पदार्थो धर्मी । नन संशयस्य का वा सामग्री इति चेत् ? उच्यते, धर्मिज्ञानं १, कोटिस्मृतिः २, उभयकोटिसहचरितधर्मवत्ताज्ञानं च ३ । संशयं प्रति अन्यतरकोटिनिर्णयः प्रतिबन्धकः ।
[विपर्ययलक्षणम्] मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतम् इति ।
विपर्ययलक्षणमाह-मिथ्येति । तदभाववति तत्प्रकारकनिश्चय इत्यर्थः ।