________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ६३
आकाक्षेति । शाब्दबोधत्वावच्छिन्नं प्रति आकाङ्क्षादिज्ञानत्वेन कारणता । अन्यथेति-ज्ञानपदाभावे आकाङ्क्षादिभ्रमे सत्यपि शाब्दबोधो जायते स न स्यात् । अविलम्बेनेति-लक्षणं तु एतावदेव । उच्चारणं तु याऽविलम्बेन पदार्थोपस्थितिः तस्या उपयोगि भवति तदर्थमुक्तम् ।
वाक्यविभागः] वाक्यं द्विविधं, वैदिकं लोकिकं च । वैदिकम् ईश्वरोक्तत्वात् सर्वमेव प्रमाणम् । लौकिकं तु आप्तोक्तं प्रमाणम्, अन्यदप्रमाणम् ।
वाक्यं विभजते-वाक्यमिति । वैदिके विशेषमाह-वैदिकमीश्वरोक्तत्वादिति । ननु वेदस्य अनादित्वात् कथम् ईश्वरोक्तत्वम् इति चेत् ? न, 'वेदः पौरुषेयः, वाक्यसमूहत्वात्, भारतादिवत्' इत्यनुमानेन पौरुषेयत्वसिद्धेः । न च स्मर्यमाणकर्तृकत्वम् उपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृत्वस्मरणेन साधनव्यापकत्वात् । 'तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्त' इति श्रुतेः । ननु वर्णा नित्याः 'स एवायं गकारः' इति प्रत्यभिज्ञाबलात्, तथा च कथं वेदस्यानित्यत्वम् इति चेत् ? न, 'उत्पन्नो गकारो नष्टो गकारः' इत्यादि प्रतीत्या वर्णानाम् अनित्यत्वात् 'सोऽयं गकार' इति प्रत्यभिज्ञायाः 'सेयं दीपज्वाला' इतिवत् साजात्यालम्बनत्वात् । वर्णानां नित्यत्वेऽपि आनुपूर्वीविशिष्टवाक्यस्यानित्यत्वाच्च । तस्माद् ईश्वरोक्तो वेदः । मन्वादिस्मृतीनाम् आचाराणां च वेदमूलकतया प्रामाण्यम् । स्मृतिमूलवाक्यानाम् इदानीमनध्ययनात् तन्मूलभूता काचिच्छाखा उच्छिन्ना इति कल्प्यते । ननु पाठ्यमानवेदवाक्योत्सादस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्य अयुक्तत्वाद् इति नित्यानुमेयो वेदो मूलमिति चेत् ? न, तथापि वर्णानुपूर्वीज्ञानाभावेन बोधकत्वासम्भवात् ।
६४ • तर्कसंग्रहः नन्विति । न चेति-यत्र यत्र पौरुषेयत्वं तत्र तत्र स्मर्यमाणकर्तृकत्वं यथा भारते इति साध्यव्यापकत्वम् । वाक्यसमूहत्वं वेदे तत्र स्मर्यमाणकर्तृकत्वं नास्ति इति साधनाव्यापकत्वम् । इत्याक्षेपः । गौतमादिभिरिति-वेदेऽपि कश्चन कर्ता तैः स्मर्यते इति साधनाव्यापकत्वं नास्तीति समाधानम् । नन्वितियोऽतीतकाले कुत्रचिद्देशे दृष्टः । स एवायं गकार इति प्रत्यभिज्ञाबलादितिकिञ्चिदंशे स्मरणात्मकं किञ्चिदंशेऽनुभवात्मकं यद् ज्ञानं सा प्रत्यभिज्ञा । प्रत्यभिज्ञा अभेदबोधिका भवति । अत्र दशांशे कालांशे च स्मरणं, गकारांशेऽनुभवः । तथा चेति-वर्णानां नित्यत्वे कथं वेदस्यानित्यत्वम् ? यतः वर्णानां समूह: पर्द, पदसमूहो वाक्यं, वाक्यसमूहो वेद इति चेत् ? न, उत्पन्न इत्यादि । एवं तहि प्रत्यभिज्ञाया का गतिस्तत्राह सोऽयमिति । प्रत्यभिज्ञायाः सजातीयविषयकत्वं वर्तते तेन 'सोऽयं गकार' इति यः पुरा दृष्टः तत्सजातीयः तत्सदृश इति यावत्, न तु स एवेत्यर्थः, यथा सेयं दीपज्वाला या पुरा दृष्टा तत्सदृशीत्यर्थः । वर्णानामिति-आनूपूर्वी-प(पो)र्वापर्यभावः । आनुपूर्वीविशिष्टानि यानि वाक्यानि तेषां समूहो वेदः तस्याप्यनित्यत्वमित्यर्थः । एतेन वेदस्य ईश्वरोक्तत्वात् प्रामाण्यम् । ननु स्मृत्यादीनां कथं प्रामाण्यम् ? तत्राह-मन्वादीतिएषामपि मूलभूतः कश्चन वेदोऽस्तीत्यर्थः । ननु साम्प्रतं स वेदो कथं नोपलभ्यते ? इत्यत आह-स्मृतीति । ननु पठ्यमानवेदे स्मृतिमूलवेदवाक्यानां विच्छेदस्तु कल्पयितुं न शक्यते, पुनः स वेदोऽपि विप्रकीर्ण इति वादोऽपि न युक्तः तस्मात् स्मृतिमूलवेदः कदापि न साक्षात् किन्तु सदाऽनुमेय एव इति चेत् ? न, एवं सति आनुपूर्वीज्ञानं न स्यात् । तदभावे च वाक्यत्वस्य शाब्दबोधजनकत्वं न स्यात्, शाब्दबोधं प्रति आनुपूर्वीज्ञानत्वेन कारणता इति स्वीकारात् ।
[शब्दस्य करणत्वनिरूपणम्] वाक्यार्थज्ञानं शाब्दज्ञानं, तत्करणं शब्दः ।
[इति शब्दप्रमाणम्] ननु "एतानि पदानि-स्मारितार्थसंसर्गवन्ति-आकाङ्क्षादिमत्पदकदम्बकत्वात्-'गामानय दण्डेन' इति मद्वाक्यवत्" इत्यनुमानादेव संसर्गज्ञानसम्भवात् शब्दो न प्रमाणान्तरमिति चेत् ? न,