________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ६१
विशिष्टचैतन्यं 'त्वं' पदार्थ इति । अत्रोच्यते इह 'जहदजहती' लक्षणा कार्या ततः 'तत्' पदवाच्यार्थस्य 'त्वं'- पदवाच्यार्थस्य च आद्यांशं त्यक्त्वा उत्तरांशान्वये सति 'चैतन्याभिन्नं चैतन्य'मिति बोधः स्यादिति भावः । गौणीति - लक्षणा सा गौणीत्युच्यते । अग्निरिति 'अग्नि' शब्दस्य अग्निसदृशे लक्षणा, माणवको ब्रह्मचारी । व्यञ्जनेति-व्यञ्जनाऽपि कैश्चिद् वृत्त्यन्तरं मन्यते तन्न इत्यर्थः । अर्थेति-अर्थे या पदस्य शक्तिः तन्मूलभूतापि कैश्चिद् वृत्त्यन्तरं मन्यते तदपि नेत्यर्थः । अनुमानादिनेति - इदं पदमेव शक्तम्- असति वृत्त्यन्तरे वृद्धैस्तत्र प्रयुज्यमानत्वादिति । आदिपदाद् वृद्धव्यवहारादिग्रहः । कुत्रचिदन्वयानुपपत्तिर्लक्षणाबीजं, कुत्रचित् तात्पर्यानुपत्तिर्लक्षणाबीजम् । तात्पर्येति वाक्यार्थज्ञानत्वावच्छिन्नं प्रति तात्पर्यज्ञानत्वेन कारणता, कुत इत्याह- नानेति । नानार्थानुसरणात् तात्पर्यग्राहकं तु प्रस्तावादिकं यथा भोजनसमये 'सैन्धवमानय' इत्युक्ते लवणमानीयते, गमनावसरे तु अश्व इति ।
ननु द्वारमित्युक्ते परस्य कथं शाब्दबोधः ? उच्यते, 'पिधेहि' 'उद्घाटय' इत्यादि शब्दाध्याहारेण द्वारकर्मकं पिधानमुद्घाटनं वेति शाब्दबोध इति भावः । नन्विति - ननु शब्दाध्याहारस्तु अर्थज्ञानार्थं क्रियते अर्थज्ञानं विना शब्दाध्याहारो न सम्भवति अतः अर्थाध्याहार एव कार्यः, किं शब्दाध्याहारेण इति चेत् ? न, पदेति - शाब्दज्ञानत्वावच्छिन्नं प्रति पदविशेषजन्यपदार्थोपस्थितित्वेन कारणता इति स्वीक्रियते, न तु अर्थोपस्थितिरेव कारणमिति भावः । अथ पदजन्येति वाच्यं, 'विशेष' पदं व्यर्थमित्याशङ्क्याह अन्यथेति । यथा 'घटमानय' इत्यत्र 'घटकर्मक- आनयनानुकूला कृतिः' इति शाब्दबोधो भवति तथाऽत्रापि स्यादित्यर्थः, यतः उपस्थितिचतुष्टयमुभयत्रापि तुल्यं, परमेकत्र पदविशेषजन्यम्, एकत्र पदजन्यम्, तद् यथा- 'घटमानय' इत्यत्र घटपदजन्या घटपदार्थोपस्थितिः (१), द्वितीया ['अम्' प्रत्यय ] जन्या कर्मत्वोपस्थितिः (२), धातुजन्या आनयनरूपार्थोपस्थितिः (३), आख्यातजन्या वृत्त्युपस्थितिः (४) । 'घटः कर्मत्व' मित्यादौ आद्या तु प्राग्वत् (१), कर्मत्वपदजन्या कर्मत्वोपस्थितिः (२), ल्युडन्तपदजन्याऽऽनयनरूपार्थोपस्थितिः (३), कृतिपदजन्या कृत्युपस्थितिः (४)
इति ।
पदं चतुर्विधम्-यौगिकं (१), रूढं (२), योगरूढं (३), यौगिकरूढं
६२ • तर्कसंग्रहः
चेति (४) । पङ्कजेति पङ्कजनिकर्तरि सरोरुहेऽवयवशक्तिरस्ति, नियतं यत्पद्मत्वज्ञानं तदर्थं समुदायशक्तिरपि, अन्यथा पङ्कजनिकर्तृत्वं भेककुमुदादौ अप्यस्ति तत्रापि 'पङ्कज' पदप्रयोगप्रसङ्गः स्यादिति भावः ।
इतरेति- इतरेणान्वितः - इतरान्वितः तत्र शक्तिर्यथा घटपदस्य घटयन्वित - कर्मत्वे शक्तिः, 'अम्' पदस्य कर्मत्वान्वितानयने शक्ति:, धातोस्तावद् आनयनान्वितकृतौ शक्तिरिति । प्रकृते तु घटपदस्य घटत्वविशिष्टे शक्तिः, द्वितीयायाः कर्मत्वे शक्ति:, धातोरानयने शक्तिः, आख्यातस्य कृतौ शक्तिः । एषां पदानामन्वयस्य वाक्यार्थमर्यादया भानं सम्भवत्येव, अतोऽन्वयांशे शक्तिकल्पनमयुक्तमिति भावः ।
[वाक्यार्थज्ञानहेतुनिरूपणम् ]
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाऽननुभावकत्वम्आकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः । तथा च आकाङ्क्षादिरहितं वाक्यमप्रमाणम् । 'यथा गौरश्वः पुरुषो हस्ती' इति न प्रमाणम्, आकाङ्क्षाविरहात् । 'वह्निना सिञ्चेद्' इति न प्रमाणं, योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि 'गामानय' इत्यादि पदानि न प्रमाणम्, सान्निध्याभावात् ।
आकाङ्क्षति । आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथा आकाङ्क्षादिभ्रमाच्छाब्दभ्रमो न स्यात् । आकाङ्क्षां लक्षयतिपदस्येति । योग्यतालक्षणमाह- अर्थेति । सन्निधिलक्षणमाह पदानामिति । अविलम्बेन पदार्थोपस्थितिः सन्निधिः । उच्चारणं तु तदुपयोगितया उक्तम् । 'गौः अश्व:' इति । 'घटः कर्मत्वम्' इत्यपि अनाकाङ्क्षोदाहरणं द्रष्टव्यम् ।