________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः . ५९ घोषः' इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते । सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावाद् नानाशक्तिकल्पनम् । लक्षणा त्रिविधा-जहल्लक्षणा, अजहल्लक्षणा, जहदजहाल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहालक्षणा, यथा 'मञ्चाः क्रोशन्ति' । यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति, यथा 'छत्रिणो गच्छन्ति' । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः तत्र जहदजहदिति यथा 'तत्त्वमसी 'ति । गौण्यपि लक्षणैव, लक्ष्यमाणगुणसम्बन्धस्वरूपा । यथा 'अग्निर्माणवक' इति ।
____ व्यञ्जनापि शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला, अर्थशक्तिमूला च अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिः लक्षणाबीजम् । तत्प्रतीतीच्छया उच्चरितत्वरूपतात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः, नानार्थानुरोधात् । प्रकरणादिकं तात्पर्यग्राहकम् ।
'द्वारम्' इत्यादौ 'पिधेहि' इति शब्दाध्याहारः । ननु अर्थज्ञानार्थत्वात् शब्दस्यार्थमविज्ञाय शब्दाध्याहारासम्भवाद् अर्थाध्याहार एव युक्त इति चेत् ? न, पदविशेषजन्यपदार्थोपस्थिते: शब्दज्ञाने हेतुत्वात् । अन्यथा 'घटः कर्मत्वम् आनयनं कृतिः' इत्यत्रापि शाब्दज्ञानप्रसङ्गात् ।
पङ्कजादिपदेषु योगरूढिः । अवयवशक्तिर्योगः । समुदायशक्तिः रूढिः । नियतपद्मत्वज्ञानार्थं समुदायशक्तिः, अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गः । 'इतरान्विते शक्तिः' इति प्राभाकराः । अन्वयस्य वाक्यार्थतया भानसम्भवाद् अन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः ।
अस्मादिति-सङ्केतः इच्छा । एतेन शक्तेर्गुणान्तर्भूतत्वान्न पदार्थान्तरत्वमिति भावः ।
गवादीति-गोपदस्य गोत्वे शक्तिः, न तु व्यक्तौ । व्यक्तीति
६०. तर्कसंग्रहः आक्षेपोऽनुमानम् अर्थीपत्तिर्वा । केचिदिति । प्राभाकराः । स्वमते तु गोत्वविशिष्टे शक्तिः, व्यक्तावित्यर्थः, न तु जातौ ।।
व्युत्पित्सुरिति-उत्तमवृद्ध (१)-मध्यमवृद्ध (२)-बालेषु (३) स्थितेषु सत्सु उत्तमवृद्धेन 'गामानय' इति वाक्ये उक्ते सति मध्यमवद्धस्य प्रवृत्तिर्जाता । तामुपलभ्य, गवानयनं च दृष्ट्वा व्युत्पत्तिमिच्छुर्बालो मध्मयवृद्धप्रवृत्तिजनकं ज्ञानं वाक्यजन्यं निश्चित्य, काभ्याम् ? अन्वयेति-वाक्यसत्त्वे ज्ञानसत्त्वं वाक्याभावे ज्ञानाभाव इति । आवापेति-आवापो गोबन्धनम्, उद्वापोऽश्वानयनं, ताभ्यां, शेषं सुगमम् । नन्विति-व्यवहारो वाक्यप्रयोगः, तस्य सर्वत्र कार्यपरत्वं कार्यप्रतीतीच्छया उच्चरितत्वं वर्तते. न त सिद्धप्रतीतीच्छया । ततो व्यवहारस्य कार्यताबोधकपदघटितवाक्ये एव शक्तिः, न सिद्धबोधकपदघटितवाक्ये इति मीमांसकैकदेशिनः । तत्र सिद्धोऽपि व्यवहारो दृश्यते यथा काञ्च्यामितिकाञ्ची नगरी सिद्धा वर्तते, भूपतिरपि सिद्धोऽस्ति, अत्र वाक्ये कार्यताबोधक पदमात्र नास्तीत्यर्थः । पुनः केनचिद् बालेन 'मधुकर पदार्थमजानता 'विकसिते पी मधुकर' इति श्रुत्वा कदाचिद् विकसिते पो भृङ्गो दृष्टः । ततश्च प्रसिद्ध यद्विकसितपद्मपदं, तत्साहचर्याद 'अयं मधुकरपदवाच्य इति तस्य शक्तिग्रहो भवति । अत्रापि सिद्धे मधुकरे मधुकरपदशक्तिदृश्यते, तेन कार्यवाक्ये एव व्युत्पत्तिरिति नियमो नेत्यर्थः ।
लक्षणेति । यथा शक्तिः शब्दस्य वृत्तिः तथा लक्षणापि शब्दस्य वृत्तिः । शक्येति-शक्यः पदार्थः, तत्सम्बन्धः । ननु यथा सैन्धवपदस्य लवणे अश्वे च शक्तिस्तथा गङ्गापदस्य प्रवाहे तीरे च शक्तिः कल्पनीया इत्यत आह गङ्गायां गोष इति । नन्वेवं सैन्धवादावपि लक्षणा कुतो न इत्याशक्याह सैन्धवादाविति । यत्रेति-यथा मञ्चपदस्य वाच्योऽर्थो मञ्चः, तस्य क्रोशक्रियायाम् अन्वयः-सम्बन्धो नास्ति, ततो मञ्चस्थे पुरुषे लक्षणा इयं जहती । योति-लक्ष्यस्य तु अन्वयः स्यादेव परं वाच्यस्याप्यन्वयो यत्र स्यात् तत्राजहती । यथेति-छत्रिपदस्य छत्रिघटितसार्थे लक्षणा । इह गमनक्रियायां छत्रिणां तदितरेषां च अन्वयसम्भवाद् अजहतीयम् । यत्रेति-तत्त्वमसी ति परमात्मजीवात्मनोः अभेदबोधकं वाक्यमिदम् । ननु अभेदस्तु नायाति परस्परार्थविरोधात्, यतः सर्वज्ञत्वविशिष्टचैतन्यं 'तत्'पदार्थः, किञ्चिज्ज्ञत्व