________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ५७ [अथ उपमानपरिच्छेदः] [उपमाननिरूपणम् ]
उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमिति: । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः तथाहि कश्चिद् गवयशब्दवाच्यपदार्थमजानन् कुतश्चिदारण्यकपुरुषाद् 'गोसदृशो गवयः' इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरम् 'अयं गवयशब्दवाच्य' इत्युपमितिरुत्पद्यते ।
[ इत्युपमानम् ]
उपमानं लक्षयति- उपमितीति ।
[इति दीपिकायामुपमानपरिच्छेदः] [अथ शब्दपरिच्छेदः]
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः, यथा-'गामानय शुक्लां दण्डेन' इति । शक्तं पदम् ।
शब्द लक्षयति-आप्तेति । वाक्यं लक्षयति वाक्यमिति । पदलक्षणमाह- शक्तमिति ।
शब्दं लक्षयति-आप्तेति । आप्तवाक्यं शब्दप्रमाणस्य लक्षणम् । अनाप्तोक्तेऽतिव्याप्तिवारणाय आप्तेति ।
शक्तमिति - शक्तिमत्पदम् शाब्दिकानां तु 'सुप्तिङन्तं पदम् तेन घटमित्यत्र घटपदस्य घटत्वविशिष्टे शक्तिः, 'अम्' इति द्वितीयायाः कर्मत्वे
५८ • तर्कसंग्रहः
शक्तिः, एवं च पदद्वयम् । तेषां मते त्वेकमेव पदम् । पदं द्विविधम्-वाचकं पारिभाषिकं च । तत्र ईश्वरीयसङ्केतरूपा या शक्तिस्तयाऽर्थबोधकं यत् पदं तद् वाचकम् । आधुनिकसङ्केतरूपा या परिभाषा तयाऽर्थबाधकं यत् पदं तत् पारिभाषिकं गुणवृद्ध्यादि ।
[शब्दशक्तिलक्षणम् ]
अस्मात् पदादयमर्थो बोद्धव्य इति ईश्वरसङ्केतः शक्तिः ।
अर्थस्मृत्यनुकूलपदार्थसम्बन्धः शक्तिः । सा च पदार्थान्तरमिति मीमांसकाः, तन्निरासार्थमाह- अस्मादिति । डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः, न तु पदार्थान्तरम् इत्यर्थः । गवादिशब्दानां जातावेव शक्तिः, विशेषणतया जातेः प्रथमम् उपस्थितत्वात्, व्यक्तिलाभस्त्वाक्षेपाद् इति केचित् तन्न, 'गामानय' इत्यादौ वृद्धव्यवहारेण सर्वत्र आनयनादेर्व्यक्तावेव शक्तिसम्भवेन जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् । शक्तिग्रहश्च वृद्धव्यवहारेण । तथा हि व्युत्पित्सुर्बालो 'गामानय' इत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्य अन्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं निश्चित्य 'अश्वमानय' 'गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्ति:, अश्वपदस्य अश्वत्वविशिष्टे शक्तिः इति व्युत्पद्यते । ननु सर्वत्र कार्यपरत्वाद् व्यवहारस्य कार्यवाक्ये एव व्युत्पत्तिः न सिद्धे इति चेत् ? न, 'काञ्च्यां त्रिभुवनतिलको भूपतिः ' इत्यादौ सिद्धेऽपि व्यवहारात् । 'विकसितपद्मे मधूनि पिबति मधुकरः ' इत्यादौ प्रसिद्धपदसमभिव्याहारात् सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च ।
लक्षणाऽपि शब्दवृत्तिः । शक्यसम्बन्धो लक्षणा । 'गङ्गायां