________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ५५
इति । उपाधिश्चतुर्विधः केवलेत्यादि । पक्षधर्मसाधनोभयभिन्नत्वम् उदासीनधर्मत्वम् । द्वितीयो यथा वायुरिति प्रमेयत्वं घटादौ तत्र प्रत्यक्षत्वमप्यस्ति, प्रमेयत्वं वायौ तत्र न प्रत्यक्षत्वम् इत्ययमसद्धेतुः । पक्षधर्मः को वा ? बहिर्द्रव्यत्वम्, बहिर्द्रव्यत्वम्=आत्ममनोभिन्नद्रव्यत्वम् । यत्र बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं तत्र उद्भूतरूपवत्त्वं वर्तते घटादौ इति साध्यव्यापकता पक्षे । साधनाव्यापकता यथा प्रमेयत्वं वर्तते वायौ, तत्र उद्भूतरूपं नास्ति । तृतीयो यथा प्रागभावेति-यत्र यत्र जन्यत्वं तत्र तत्र अनित्यत्वं वर्तते घटादौ, जन्यत्वं ध्वंसे, तत्रानित्यत्वं नास्ति इत्ययमसद्धेतुः । साधनं किम् ? जन्यत्वम् । यत्र जन्यत्वे सति अनित्यत्वं तत्र भावत्वं वर्तते घटादौ इति साध्यव्यापकत्वम्, जन्यत्वं ध्वंसे तत्र भावत्वं नास्ति इति साधनाव्यापकत्वम् । चतुर्थो यथा प्रागभावेति यत्र यत्र प्रमेयत्वं तत्र तत्र विनाशित्वं वर्तते घटादौ प्रमेयत्वं नित्यपदार्थेषु तत्र न विनाशित्वमित्ययमसद्धेतुः । अत्रोदासीनधर्मो जन्यत्वं यत्र जन्यत्वे सति अनित्यत्वं तत्र भावत्वं वर्तते घटादौ इति साध्यव्यापकत्वम् । प्रमेयत्वं प्रागभावे, तत्र भावत्वं नास्तीति साधनाव्यापकता ।
[बाधितलक्षणम् ]
यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधितः । यथा - 'वह्निरनुष्णो द्रव्यत्वाद्' इति । अत्राऽनुष्णत्वं साध्यं, तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् ।
[व्याख्यातमनुमानम् ]
बाधितस्य लक्षणमाह-यस्येति । अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षाद् अनुमितिप्रतिबन्धकत्वम् । इतरेषां परामर्शप्रतिबन्धकत्वम् । साधारणस्य अव्यभिचाराभाववत्तया विरुद्धस्य सामानाधिकरण्याभाववत्तया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभाववत्तया, असाधारणानुपसंहारिणोर्व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम् ।
५६ • तर्कसंग्रहः आश्रयासिद्धस्वरूपासिद्धयोः पक्षधर्म ताज्ञानप्रतिबन्धकत्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धे अन्तर्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः ।
[इति दीपिकायामनुमानपरिच्छेदः]
अत्र बाधस्येति-ग्राह्यमनुष्णत्वं तदभावः उष्णत्वं, तस्य निश्चयो बाधः, तेन बाधस्य 'वह्निरुष्णत्वाभाववान्' इत्यनुमितेः साक्षात्प्रतिबन्धकत्वम् । तद्वत्ताबुद्धित्वावच्छिन्नं प्रति तदभाववत्तानिर्णयत्वेन प्रतिबन्धकता । सत्प्रतिपक्षस्येति अत्र परामर्शद्वयं यथा-नित्यत्वव्याप्यश्रावणत्ववान् अयं शब्दः, अनित्यत्वव्याप्यकार्यत्ववान् अयं शब्दः । अत्रेयं विरोधिज्ञानसामग्री साक्षादनुमितिप्रतिबन्धिका । आद्या तु अनित्यत्वविरोधिनित्यत्वज्ञानसामग्री, द्वितीया तु नित्यत्वविरोध्यनित्यत्वज्ञानसामग्री । एवं च अनुमितिर्न जायते । तत्रापीति-साधारणस्य अव्यभिचाराभावतया व्यभिचारित्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम् । अव्यभिचरितसाध्यसामानाधिकरण्यं व्याप्तिः । साधारणस्तु व्यभिचारी भवति । विरुद्धस्येति विरुद्धस्य साध्यसामानाधिकरण्यं नास्ति, व्याप्तौ तु साध्यसामानाधिकरण्यमपेक्षितम् । व्याप्यत्वासिद्धस्येति-सोपाधिकस्याव्यभिचरितसाध्यसामानाधिकरण्यं नास्ति तेन व्याप्तिज्ञानप्रतिबन्धकत्वम् । आसाधारणेति द्वयोरपि व्याप्तिसंशयजनकत्वं वर्तते तेन व्याप्तिज्ञानप्रतिबन्धकत्वम् । पक्षातिरिक्तस्थले साध्यसाधनसहचारस्य साध्याभावसाधनाभावसहचारस्य च ग्रहाभावात् व्याप्तिसंशयजनकत्वम् । आश्रयेति'गगनारविन्दमरविन्दत्ववत्' इति पक्षधर्मताज्ञानं न भवत्येव आश्रयाभावात् । यथा 'शब्दश्चाक्षुषत्ववान्' इति पक्षधर्मताज्ञानमपि न स्यात् शब्दे चाक्षुषत्वाभावात् । उपाधिस्त्विति-उपाधिव्यभिचारेण साध्यव्यभिचारोऽनुमीयते यथा वह्निः धूमव्यभिचारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात् । एवं व्यापकव्यभिचारेण व्याप्यव्यभिचारित्वम् । ननु सिद्धिरप्यनुमितिप्रतिबन्धिका, तस्यां कुत्र अन्तर्भावः इत्याशङ्क्याह- सिद्धेति सिद्धसाधनं सिद्धिः, तत् पक्षताविघटकं भवति, तेनाश्रयासिद्धेऽत्यन्ताभावः इति प्राञ्चः । नव्यास्तु निग्रहस्थानान्तरमिदम् इत्याहुः । इत्यनुमानम् ।