________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ५३
[विरुद्धलक्षणम् ]
साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा 'शब्दो नित्यः कृतकत्वाद्' इति । कृतकत्वं हि नित्यत्वाऽभावेनाऽनित्यत्वेन व्याप्तम् ।
विरुद्धं लक्षयति-साध्येति ।
[सत्प्रतिपक्षलक्षणम् ]
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा 'शब्दो नित्यः श्रावणत्वाच्छब्दवत्' । 'शब्दोऽनित्यः कार्यत्वाद् घटवद्' इति ।
सत्प्रतिपक्षं लक्षयति-यस्येति । [असिद्धलक्षणम् ]
असिद्धस्त्रिविधः । आश्रयासिद्धः, स्वरूपासिद्धो, व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजाऽरविन्दवत् इति । अत्र गगनारविन्दमाश्रयः, स च नास्त्येव । स्वरूपासिद्धो यथा शब्दोऽनित्यश्चाक्षुषत्वाद् रूपवदिति । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणाऽत्यन्ताऽभावाऽप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठाऽत्यन्ताऽभावप्रतियोगित्वं साधनाऽव्यापकत्वम् । यथा 'पर्वतो
५४ • तर्कसंग्रहः
धूमवान् वह्निमत्त्वाद्' इत्यत्र आर्द्रेन्धनसंयोग उपाधिः । तथा हि 'यत्र धूमस्तत्राऽऽर्द्रेन्धनसंयोगः' इति साध्यव्यापकत्वम् । ‘यत्र वह्निस्तत्राऽऽर्द्रेन्धनसंयोगो नास्ति' अयोगोलके आर्द्रेन्धनसंयोगाभावाद् इति साधनाऽव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद् आर्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वाऽसिद्धम् ।
असिद्धं विभजते- असिद्ध इति । आश्रयासिद्धमुदाहरतिगगनेति । स्वरूपासिद्धमुदाहरति-शब्द इति । व्याप्यत्वासिद्धस्य लक्षणमाह-सोपाधिक इति । उपाधेर्लक्षणमाह-साध्येति ।
उपाधिश्चतुर्विधः, केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्यः आर्द्रेन्धनसंयोगः । द्वितीयो यथा 'वायुःप्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्' इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकम् उद्भूतरूपवत्त्वम् । तृतीयो यथा-'प्रागभावो - विनाशीजन्यत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । चतुर्थस्तु 'प्रागभावो विनाशी प्रमेयत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।
शब्दो गुणश्चाक्षुषत्वादिति - चाक्षुषत्वं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे, तत् शब्दे नास्ति ।
उपाधेर्लक्षणमाह-साध्यव्यापकत्वे इत्यादि । साध्येति साध्यो धूमः, तत्समानाधिकरणो योऽत्यन्ताभाव आर्द्रेन्धनसंयोगाभावस्तु नायाति, तर्हि घटपटाद्यत्यन्ताभावः, तस्य प्रतियोगित्वं वर्तते घटादौ, अप्रतियोगित्वं वर्तते आर्द्रेन्धनसंयोगे । साधनेति - साधनं वह्निः, तद्वत् किम् ? अयोगोलकं, तन्निष्ठो योऽत्यन्ताभाव आर्द्रेन्धनसंयोगात्यन्ताभावः, तत्प्रतियोगित्वं वर्तते आर्द्रेन्धनसंयोगे