________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ६५
अनुमित्यपेक्षया शाब्दज्ञानस्य विलक्षणत्वं 'शब्दात् प्रत्येमि' इत्यनुव्यवसायसाक्षिकस्य सर्वसम्मतत्वात् ।
ननु अर्थापत्तिरपि प्रमाणान्तरमस्ति 'पीनो देवदत्तो दिवा न भुङ्क्ते इति दृष्टे, श्रुते वा, पीनत्वान्यथानुपपत्त्या रात्रिभोजनम् अर्थापत्त्या कल्प्यते इति चेत् ? देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् ।
'शते पञ्चाशद्' इति सम्भवोऽपि अनुमानमेव ।
'इह वटे यक्षस्तिष्ठति' इति ऐतिह्यमपि अज्ञानमूलवक्तृकः शब्द एव ।
चेष्टा अपि शब्दानुमानद्वारा व्यवहारहेतुः इति न मानान्तरम् । तस्मात् प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ।
[इति दीपिकायां शब्दपरिच्छेदः]
नन्विति । यत्र यत्र आकाङ्क्षादिमत्पदकदम्बकत्वं तत्र तत्र स्मारितार्थसंसर्गज्ञानपूर्वकत्वं यथा मद्वाक्ये 'गामानय' इत्यादौ, तथा एतेष्वपि पदेषु इति । अनुमितीति - अनुमित्यपेक्षया विजातीयस्य शाब्दबोधस्य सर्वसम्मतत्वं वर्तते । अनुमितौ धूमादग्निमनुमिनोमीत्यनुव्यवसाय:, अत्र तु 'शब्दादिममर्थं प्रत्येमि' इत्यनुव्यवसाय: अयमेव विलक्षणत्वे साक्षी बोध्यः ।
नन्विति । देवदत्त इत्यादि देवदत्तः पक्षः, रात्रिभोजनं साध्यते, दिवा तु भुञ्जानत्वे सति पीनत्वं हेतु:, दिवा रात्रावभोजी दृष्टान्तः । अत्र केवलव्यतिरेकि अनुमानम् - यत्र यत्र रात्रिभोजनाभावः तत्र तत्र दिवाऽभुञ्जानत्वे सति पीनत्वाभावः यथा दिवारात्रावभोजिनि पुरुषे, न चात्र देवदत्ते तथा तस्मान्न तथेति । अनेनानुमानेन रात्रिभोजनं सिद्धम् ।
शते इति अधिकसङ्ख्यायां न्यूनसङ्ख्या वर्तते, अत्र सम्भवाख्यं प्रमाणान्तरं कैश्चिन्मन्यते तन्न इत्यर्थः ।
इहेति-अज्ञातो मूलवक्ता यस्य स अज्ञातमूलवक्तृकः शब्द एवात्र
६६ • तर्कसंग्रहः
प्रमाणम् ।
चेष्टेति । भूक्षेप हस्तविन्यास शिरोधूननादिका चेष्टा तया कृत्वा परस्य शाब्दबोधो जायते, यद्वाऽनुमितिर्जायते, अतः चेष्टायाः प्रमाणान्तरत्वं नास्तीत्यर्थः । [अथ प्रामाण्यविचारः]
अथ ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वा इति विचार्यते । तत्र विप्रतिपत्तिः 'ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा ? अत्र विधिकोटिः स्वतस्त्वम्, निषेधकोटिः परतस्त्वम् । अनुमानग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति । 'इदं ज्ञानम् अप्रमा' इति ज्ञानेन प्रामाण्यग्रहाद् बाधवारणाय अप्रामाण्याग्राहकेति । इदं ज्ञानम् अप्रमा' इति अनुव्यवसायनिष्ठप्रामाण्यग्राहकस्य अप्रामाण्याग्राहकत्वाभावात् स्वतस्त्वं न स्याद् अतः तदिति । तस्मिन् ग्राह्यप्रामाण्याश्रये अप्रामाण्याग्राहकेत्यर्थः । उदाहृतस्थले व्यवसाये अप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राहकत्वात् स्वतस्त्वसिद्धिः । ननु स्वत एव प्रामाण्यं गृह्यते 'घटमहं जानामि इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात्, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वाद् इति चेत् ? न, स्वतः प्रामाण्यग्रहे 'जलज्ञानं प्रमा न वा' इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात् स्वतोग्राह्यत्वाभावात् परतोग्राह्यत्वम् । तथाहि प्रथमं जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा अप्रमा' इति व्यतिरेकिणा प्रमात्वं निश्चीयते । द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन अन्वयव्यतिरेकिणापि गृह्यते । प्रमाया गुणजन्यत्वम् उत्पत्तौ परतस्त्वम् । प्रमाऽसाधारणकारणं गुणः । अप्रमाऽसाधारणकारणं दोषः । तत्र प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षो गुणः । अनुमितौ