________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ४३
तप्ताय: पिण्डे तथा दर्शनात् तत्प्रतियोगि साध्यं धूमो वर्तते परं तदप्रतियोगि नास्ति इति कृत्वा नातिव्याप्तिः । ननु कस्मिंश्चित् सद्धेतौ अपि अव्याप्तिः ? यतोऽयं कपिसंयोगी एतद्वृक्षत्वाद् इत्यत्र इदंत्वरूपेण पक्षता, पक्षे च एतद्वृक्षत्वं वर्तते । ततः कपिसंयोगोऽप्यस्ति इति भवत्ययं सद्धेतुः । अथ हेतुरेतद्वृक्षत्वं तत्समानाधिकरणे योऽत्यन्ताभावः कपिसंयोगात्यन्ताभावोऽप्यायाति, अव्याप्यवृत्तित्त्वात् तत्प्रतियोगिसाध्यं कपिसंयोगोऽस्ति परं तदप्रतियोगि नास्ति, इति कृत्वाऽव्याप्तिः इति चेद् ? न व्याप्यवृत्तित्वं प्रतियोगिव्यधिकरणत्वं वाऽभावे विशेषणं निवेश्यं ततो नाऽव्याप्तिः । व्याप्यवृत्तित्वं नाम अनवच्छिन्नवृत्तिकत्वम् । प्रतियोगिव्यधिकरणत्वं नाम प्रतियोग्यनधिकरणवृत्तित्वम् । अथ च कपिसंयोगात्यन्ताभावो यद्यपि हेतुसमानाधिकरणोऽस्ति ततोऽपि व्याप्यवृत्तिर्नास्ति, तेन गोत्वाद्यभावो बोध्यः, अतः परं नाव्याप्तिः । यद्वा कपिसंयोगाभावो यद्यपि हेतुसमानाधिकरणः तथापि प्रतियोग्यधिकरणावृत्तिर्नास्ति, प्रतियोगी कपिसंयोगः, तदधिकरणं वृक्षः, तत्र अवृत्तिर्नास्ति, तेन गोत्वाद्यभावो ग्राह्यः । अथ पुनरपि सद्धेतौ अव्याप्तिः, यथा इदं द्रव्यं, विशिष्टसत्त्वात् । विशिष्टसत्त्वं नाम गुणकर्मान्यत्वविशिष्टसत्ता । यत्र यत्र विशिष्टसत्त्वं तत्र तत्र द्रव्यत्वं वर्तते द्रव्ये, अत्रेदं लक्षणं नायाति, कथम् ? हेतुर्विशिष्टसत्त्वं तदधिकरणं यथा द्रव्यं तथा गुणः कर्म च शुद्धसत्ताविशिष्टसत्तयोरैक्यात्, तन्निष्ठो व्याप्यवृत्तिर्योऽभावः द्रव्यत्वात्यन्ताभावः, तत्प्रतियोगिसाध्यं नास्ति इति कृत्वाऽव्याप्तिः । तदव्याप्तिवारणाय प्रकृतो हेतुशब्दो हेतुतावच्छेदकावच्छिन्नहेतुपरो बोध्यः । हेतुर्गुणकर्मान्यत्वविशिष्टसत्ता, हेतुतागुणकर्मान्यत्वविशिष्टसत्तायां हेतुतावच्छेदकं गुणकर्मान्यत्वविशिष्टसत्तात्वं तदवच्छिन्नो हेतुर्गुणकर्मान्यत्वविशिष्टसत्ता, तदधिकरणं द्रव्यमेव न तु गुणकर्मणी, इति नाव्याप्तिः । तत इदं लक्षणं जातंव्याप्यवृत्तिहेतुतावच्छेदकावच्छिन्नहेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्य
सामानाधिकरण्यं व्याप्तिः ।
[पक्षधर्मताविभागः]
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । पक्षधर्मतास्वरूपमाह-व्याप्यस्येति ।
४४ • तर्कसंग्रहः
व्याप्यस्येति । व्याप्त्याश्रयो व्याप्यो धूमः तस्य ।
[अनुमानविभागः]
अनुमानं द्विविधम्- स्वार्थं परार्थं च ।
अनुमानं विभजते- अनुमानमिति । तद्द्द्वैविध्यं दर्शयतिस्वार्थमिति ।
[स्वार्थानुमाननिरूपणम्]
(तत्र ) स्वार्थं स्वानुमितिहेतुः । तथाहि - स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निः' इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः । तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति - ' यत्र यत्र धूमस्तत्र तत्राग्निः' इति । तदनन्तरं 'वह्निव्याप्यधूमवानयं पर्वत:' इति ज्ञानमुत्पद्यते । अयमेव 'लिङ्गपरामर्श: ' इत्युच्यते । तस्मात् 'पर्वतो वह्निमान्' इति ज्ञान - मनुमितिरुत्पद्यते । तदेतत् स्वार्थानुमानम् ।
तत्रेति - उभयोर्मध्ये इत्यर्थः । स्वार्थानुमितिं लक्षयति- स्वयमेवेति । भूयोदर्शनेनेति । ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि मण्यादौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं व्याप्तिग्रहः इति चेत् ? न, व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात् । व्यभिचारज्ञानं द्विविधम्-निश्चयः शङ्का च । तद्विरहः क्वचित् तर्कात् क्वचित् स्वत: सिद्ध एव । धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः । ननु सकलवह्निधूमयोः असन्निकर्षात् कथं व्याप्तिग्रहः इति चेत् ? न, वह्नित्वरूपसामान्यप्रत्यासत्त्या सकलवह्निधूमज्ञानसम्भवात् । तस्मा