________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ४१
अनुमितेर्लक्षणमाह- परामर्शेति । ननु संशयोत्तरप्रत्यक्षे अतिव्याप्तिः । स्थाणुपुरुषसंशयानन्तरं 'पुरुषत्वव्याप्यकरादिमान् अयम्' इति परामर्शे सति 'पुरुष एव' इति प्रत्यक्षजननात् । न च तत्राऽनुमितिरेव इति वाच्यम्, 'पुरुषं साक्षात्करोमि' इत्यनुव्यवसायविरोधाद् इति चेत् ? न, पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात् । सिषाधयिषाविरहसहकृतसिद्ध्यभावः पक्षता । साध्यसिद्धिः अनुमितिप्रतिबन्धिका । सिद्धिसत्त्वेऽपि 'अनुमिनुयाम्' इति इच्छायाम् अनुमितिदर्शनात् सिषाधयिषा उत्तेजिका । ततश्च उत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणवत् सिषाधयिषाविरहसहकृतसिद्ध्यभावस्यापि अनुमितिकारणत्वम् ।
परामर्शेति । प्रत्यक्षादौ अतिव्याप्तिवारणाय परामर्शजन्यम्' इति, परामर्शध्वंसे अतिव्याप्तिवारणाय 'ज्ञानम्' इति ।
नन्विति । 'स्थाणुर्वा पुरुषो वा' इति संशयात्मकं चतुष्कोटिकं ज्ञानं तावद् भवति । स्थाणुत्वम् (१) स्थाणुत्वाभाव: (२) पुरुषत्वम् (३) पुरुषत्वाभावः ( ४ ) इति । ततः संशयानन्तरम् एककोटिकं ज्ञानं स्यात् अत्र ['अयम्'] पदार्थः पक्षः, पुरुषत्वं साध्यते, करादिमत्त्वं हेतुरिति । न चेति । अनुमितौ ‘अहं पुरुषमनुमिनोमि' इत्याकारकोऽनुव्यवसायः, सोऽत्र नास्ति इत्यनेन नेयमनुमितिः । पक्षतेति । पक्षतासहकृतो यः परामर्शः तज्जन्यत्वे सति ज्ञानत्वम् इति लक्षणं विवक्षितं तेन संशयोत्तरप्रत्यक्षे यद्यपि परामर्शजन्यत्वे सति ज्ञानत्वं वर्तते तथापि पक्षताविशिष्टपरामर्शजन्यत्वे सति ज्ञानत्वं नास्ति, अतो नातिव्याप्तिः ।
ननु पक्षता को वा पदार्थ ? इत्यत आह- सिषाधयिषेति । अनुमितिविषयिणी इच्छा सिषाधयिषा, तद्विरहेण सहकृता या सिद्धिः, तदभावः पक्षता । अनुमितेः समानाकारकं ज्ञानं सिद्धिः । पक्षतावच्छेदकावच्छिन्नपक्षविशेष्यकसाध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकज्ञानं सिद्धिरित्यर्थः । सिद्धेः प्रतिबन्धिका सिषाधयिषा सा उत्तेजिका उच्यते । प्रतिबन्धकप्रतिबन्धकत्वम् उत्तेजकत्वम् ।
४२ • तर्कसंग्रहः [परामर्शलक्षणम् ]
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा "वह्निव्याप्यधूमवान् अयं पर्वतः " इति ज्ञानं परामर्श: । तज्जन्यं "पर्वतो वह्निमान्" इति ज्ञानम् अनुमितिः ।
परामर्श लक्षयति व्याप्तीति । व्याप्तिविषयकं यत् पक्षधर्मताज्ञानं स परामर्श इत्यर्थः । परामर्शं दर्शयति-यथेति । अनुमितिम् अभिनीय दर्शयति तज्जन्यमिति । परामर्शजन्यम् इत्यर्थः ।
व्याप्तिविशिष्टेति - शिरोमणिभट्टाचार्यैर्ज्ञानान्तः कर्मधारयः स्वीकृतः । प्रकृतेऽपि तथैव । उपाध्यायमते धर्मान्तकर्मधारयाद् भावप्रत्ययः । मिश्रमते द्वन्द्वाद् भावप्रत्यय इति ।
[ व्याप्तिलक्षणम् ]
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।
व्याप्तेर्लक्षणमाह-यत्रेति 'यत्र धूमः तत्राग्निः' इति व्याप्तेरभिनयः । साहचर्यनियमः इति लक्षणम् । साहचर्य सामानाधिकरण्यं तस्य नियमः । हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इत्यर्थः ।
व्याप्तेर्लक्षणमाह-नियतं साहचर्यं व्याप्तिः । अयं धूमवान् वह्नेरित्यादौ व्यभिचारिणि हेतौ नियतं साहचर्यं नास्ति तेन तत्र नातिव्याप्तिः । हेत्विति - व्याप्तिः सद्धेतुमात्रवृत्तिर्भवति । सद्धेतौ लक्षणमानेयं कथम् ? हेतुर्धूमः, तत्सामानाधिकरणो योऽत्यन्ताभावः, वह्नेरत्यन्ताभावस्तु नायाति, तर्हि गोत्वात्यन्ताभावः, तत्प्रतियोगि गोत्वं परं तदप्रतियोगि किं भवति ? साध्यं वह्निः, तत्सामानाधिकरण्यं वर्तते हेतौ धूमे इति । एवमपि असद्धेतौ नातिव्याप्तिः कथम् ? हेतुर्वह्निः, तत्समानाधिकरणो योऽत्यन्ताभावः धूमात्यन्ताभावोऽप्यायाति,