________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ३९
श्रोत्रसम्बन्धात् प्रत्यक्षत्वसम्भवात् ।
कदम्बति-यथा कदम्बमुकुलं युगपदेव दशदिक्षु विकसति तथा शब्दोत्पत्तिकाले समकालमेव आद्यशब्दाद् दशशब्दा उत्पद्यन्ते । तैश्चान्ये दशशब्दा उत्पाद्यन्ते इत्यादि ।
[समवेतसमवायसन्निकर्षनिरूपणम् ]
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।
समवेतसमवायमुदाहरति- शब्दत्वेति ।
[विशेषणविशेष्यभावसन्निकर्षनिरूपणम् ]
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । घटाभाववद् भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणं सिद्धम् ।
विशेषणविशेष्यभावमुदाहरति- अभावेति । तदुपपादयतिघटाभाववद् इति । भूतलं विशेष्यम् । घटाभावो विशेषणम् । 'भूतले घटो नास्ति' इत्यत्र घटाऽभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् । यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत्, दर्शनाभावान्नास्ति' इति तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धेः सहकृतेन इन्द्रियेणैव अभावज्ञानोपपत्तौ अनुपलब्धेः प्रमाणाऽन्तरत्वासम्भवात् । अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तौ अनुपलब्धेः करणत्वस्य अयुक्तत्वात्, विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव नातिरिक्तः सम्बन्धः ।
४० • तर्कसंग्रहः
प्रत्यक्षज्ञानमुपसंहरन् तस्य कारणमाह- एवमिति । असाधारणकारणत्वाद् इन्द्रियं प्रत्यक्षज्ञानकरणम् इत्यर्थः । प्रत्यक्षम् उपसंहरतितस्माद् इति ।
मीमांसकैः सन्निकर्षपञ्चकं स्वीक्रियते, अभावज्ञानार्थम् अनुपलब्धिः प्रमाणान्तरं च मन्यते । तत्रोच्यते प्रमाणान्तरं माऽस्तु, 'यदि अत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत्' इति तर्कितं यत् प्रतियोगिसत्त्वं तद्विरोधिनी याऽनुपलब्धि: तया सहकृतं = विशिष्टं यदिन्द्रियं चक्षुरिन्द्रियं तेनैव अभावज्ञानोपपत्तिः सिद्धा तदर्थमनुपलब्धेः प्रमाणान्तररत्वं व्यर्थम् । पुनश्च अधिकरणं भूतलम्, तद्ज्ञानार्थम् अपेक्षणीयं यदिन्द्रियं तस्यैव अभावज्ञाने करणत्वोपपत्तौ अनुपलब्धेः करणत्वम् अयुक्तम् । ननु मीमांसकमते लाघवं वर्तते प्रकृते तु गौरवम्, कुत: ? तेषां मते सन्निकर्षपञ्चकं, प्रकृते तु षट्कम् । पुनञ्चात्रापि अनुपलब्धिरूपः पदार्थः स्वीक्रियते । तथा इन्द्रियेण अभावप्रत्यक्षे जननीये अनुपलब्धेः सहकारित्वं वर्तते इति, अत्रोच्यते-षष्ठः सन्निकर्षो विशेषणविशेष्यभावः, सोऽतिरिक्तः सम्बन्धो नास्ति किन्तु तत्स्वरूपमेव । विशेषणे विशेषणता विशेषणतास्वरूपमेव विशेष्यता विशेष्यस्वरूपमित्यर्थः ।
॥ इति प्रत्यक्षपरिच्छेदः ॥ [अथानुमानपरिच्छेदः] [अनुमानलक्षणम् ]
अनुमितिकरणम् अनुमानम् ।
अनुमानं लक्षयति- अनुमितिकरणमिति ।
अनुमितीति करणमनुमानमित्युक्ते कुठारेऽतिव्याप्तिः स्यात्, तदर्थं मितिपदं वाच्यम् । प्रत्यक्षेऽतिव्याप्तिवारणाय 'अनु' पदम् ।
[अनुमितिलक्षणम्]
परामर्शजन्यं ज्ञानम् अनुमितिः ।