________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ३७ तद् विभजते-तद् द्विविधमिति । निर्विकल्पकस्य लक्षणमाहनिष्प्रकारकमिति । विशेषणविशेष्यसम्बन्धानवगाहिज्ञानमित्यर्थः । ननु निर्विकल्पके किं प्रमाणम् इति चेत् ? न, 'गौः' इति विशिष्टज्ञानं, विशेषणज्ञानजन्य-विशिष्टज्ञानत्वात्-'दण्डी' इति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्यापि सविकल्पकत्वे अनवस्थाप्रसङ्गात् निर्विकल्पकत्वसिद्धिः । सविकल्पकं लक्षयति-सप्रकारकमिति । नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहिज्ञानम् इत्यर्थः । सविकल्पकमुदाहरति-यथेति ।
तद् द्विविधमिति । प्रकारताख्यविषयताशालित्वे सति ज्ञानत्वं सविकल्पकत्वम् । प्रकारताख्यविषयताशून्यत्वे सति ज्ञानत्वं निविकल्पकत्वम् । घटघटत्वे इत्यभिलापके शब्दे निविकल्पकज्ञानं तदतीन्द्रियं भवति, यतः प्राथमिकगोत्वविशिष्टज्ञानात् पूर्वं यद् गोत्वज्ञानं तद्विशेष्यविशेषणसम्बन्धानवगाह्येव भवतीत्यर्थः ।
___ नन्विति । गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यत्वव्याप्यं, यथा दण्डी पुरुष इत्याकारकं दण्डविशिष्टज्ञानम् । तत् कदा भवति ? यदा पूर्वं दण्डो जायते तदा स्यात् । तथाऽत्रापि 'अयं गौः' इत्याकारकं गोत्वविशिष्टज्ञानं गोत्वविशेषणज्ञानजन्यं तद् गोत्वज्ञानं निर्विकल्पकं बोध्यम् ।
नामजात्यादिति । यथाऽयं चैत्रः, अत्र नाम्नो विशेषणत्वं व्यक्ते विशेष्यत्वम् । यथाऽयं ब्राह्मणः, अत्र ब्राह्मणत्वजातेविशेषणत्वं, व्यक्तेविशेष्यत्वम् ।
[इन्द्रियार्थसन्निकर्षविभाग:] प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः समवेतसमवायः, विशेषणविशेष्यभावश्चेति ।
इन्द्रियार्थसन्निकर्षं विभजते-प्रत्यक्षेति ।
३८ • तर्कसंग्रहः
[संयोगसन्निकर्षनिरूपणम्] चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।
संयोगसन्निकर्षम् उदाहरति-चक्षुषेति । द्रव्यप्रत्यक्षे सर्वत्र संयोगः सन्निकर्षः इत्यर्थः । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेन । ततः प्रत्यक्षज्ञानम् उत्पद्यते ।
_[संयुक्तसमवायसन्निकर्षनिरूपणम्] घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे रूपस्य समवायात् ।
संयुक्तसमवायमुदाहरति-घटरूपेति । तत्र युक्तिमाह-चक्षुःसंयुक्त इति ।
[संयुक्तसमवेतसमवायसन्निकर्षनिरूपणम्] रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपस्य समवायात् । संयुक्तसमवेतसमवायम् उदाहरति-रूपत्वेति ।
[समवायसन्निकर्षनिरूपणम्] श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवाकाशस्य श्रोत्रत्वात्, शब्दस्याकाशगुणत्वात्, गुणगुणिनोश्च समवायात् ।
समवायम् उदाहरति-श्रोत्रेणेति । तदुपपादयति-कर्णेति । ननु दूरस्थशब्दस्य कथं श्रोत्रेण सम्बन्ध इति चेत् ? न, वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य