________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ३५ कार्यलक्षणमाह-कार्यमिति ।
कार्यमिति प्रागभावप्रतियोगित्वम् । उत्पत्तिमत्सु सर्वेषु प्रागभावप्रतियोगित्वं वर्तते, यथा घटप्रागभावप्रतियोगित्वं घटे ।
__ [कारणविभागः] कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् ।
[समवायिकारणलक्षणम्] यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः ।
[असमवायिकारणलक्षणम्] कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतं सत् कारणमसमवायि कारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटरूपस्य ।
कारणं विभजते-कारणमिति । समवायिकारणलक्षणमाहयत्समवेतमिति । यस्मिन् समवेतम् इत्यर्थः । असमवायिकारणलक्षणमाह-कार्येणेति । कार्येणेत्येतद् उदाहरति-तन्तुसंयोग इति । कार्येण पटेन सह एकस्मिन् तन्तौ समवेतत्वात् तन्तुसंयोगः पटस्य असमवायिकारणम् इत्यर्थः । कारणेन सहेत्येतद् उदाहरतितन्तुरूपमिति । कारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वात् तन्तुरूपं पटरूपस्य असमवायिकारणम् इत्यर्थः । निमित्तकारणं लक्षयति-तदुभयेति । समवायि-असमवायि-भिन्नकारणं निमित्तकारणम् इत्यर्थः ।
तन्तुसंयोग इति-तन्तौ पटस्य तन्तुसंयोगस्य च समवेतत्वे सति कारणं तन्तुसंयोगः । स एव पटस्यासमवायिकारणम् । अत्र कारणपदं तन्तुत्वेऽति
३६ . तर्कसंग्रहः व्याप्तिवारणाय ।
[निमित्तकारणलक्षणम्] तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।
तदेतत् त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् । करणलक्षणमुपसंहरति-तदेतद् इति ।
[प्रत्यलक्षणम्] तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षज्ञानं प्रत्यक्षम् । ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।
प्रत्यक्षलक्षणमाह-तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः । प्रत्यक्षज्ञानस्य लक्षणमाह-इन्द्रियेति । इन्द्रियं चक्षुरादिकम्, अर्थो घटादिः तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः ।
तत्रेति प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । दण्डादौ अतिव्याप्तिवारणाय ज्ञानेति । अनुमानादौ अतिव्याप्तिवारणाय प्रत्येति । इन्द्रियेति । इन्द्रियार्थसन्निकर्षजन्यत्वे सति ज्ञानत्वं प्रत्यक्षत्वम् । इन्द्रियार्थध्वंसेऽतिव्याप्तिवारणाय ज्ञानपदम् । अनुमित्यादौ अतिव्याप्तिवारणाय इन्द्रियार्थसन्निकर्षजन्यमिति ।
[प्रत्यक्षविभाग:] तद् द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं ज्ञानं सविकल्पकम्, यथा “डित्थोऽयम्" "ब्राह्मणोऽयम्" "श्यामोऽयम्" इति ।