________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ३३ यथार्थानुभवं विभजते-यथार्थेति ।
[प्रमाणविभागः] तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशब्द भेदात् ।
प्रसङ्गात् प्रमाकरणं विभजते-तत्करणमिति । प्रमाकरणमित्यर्थः । प्रमायाः करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ।
तत्करणमपीति । प्रमाकरणं प्रमाणम् । अत्र च 'करणं प्रमाणम्' इत्युच्यते चेत् कुठारेऽतिव्याप्तिः, सोऽपि छेदं प्रति करणमस्ति, अतो 'मा' पदं वाच्यम् । 'मा' नाम ज्ञानं, तस्याः करणं प्रमाणम् । एवमपि काचकामलदोषदुष्टे चक्षुरिन्द्रियेऽतिव्याप्तिः, 'पीतः शङ्कः' इत्याकारकेऽयथार्थज्ञाने तदपि करणं भवति, अतोऽत्र 'प्र'पदं वाच्यमिति ।।
[करणलक्षणम्] असाधारणं कारणं करणम् ।
करणलक्षणमाह-असाधारणमिति । साधारणे दिक्कालादौ अतिव्याप्तिवारणाय असाधारणमिति ।
[कारणलक्षणम्] कार्यनियतपूर्ववृत्ति कारणम् ।
कारणलक्षणमाह-कार्येति । 'पूर्ववृत्ति कारणम्' इत्युक्ते रासभादौ अतिव्याप्तिः स्याद् अतो नियतेति । तावन्मात्रे कृते कार्ये अतिव्याप्तिः, अतः पूर्ववृत्तीति । ननु तन्तुरूपम् अपि पटं प्रति कारणं स्याद् इति चेत् ? न, 'अनन्यथासिद्धत्वे सति' इति विशेषणात् । अनन्यथासिद्धत्वम् अन्यथासिद्धिविरहः ।
अन्यथासिद्धिः त्रिविधा । तथाहि (१) येन सहैव यस्य यं
३४ • तर्कसंग्रहः प्रति पूर्ववृत्तित्वम् अवगम्यते तं प्रति तेन तद् अन्यथासिद्धम्, यथा तन्तुना तन्तुरूपं तन्तुत्वं च पटं प्रति । (२) अन्यं प्रति पूर्ववृत्तित्वे ज्ञाते एव यस्य यं प्रति पूर्ववृत्तित्वम् अवगम्यते तं प्रति तद् अन्यथासिद्धम्, यथा शब्द प्रति पूर्ववृत्तित्वे ज्ञाते पटं प्रति आकाशस्य । (३) अन्यत्र क्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतम् अन्यथासिद्धम्, यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य । एवं च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।
कार्येति-कार्यनियतपूर्ववृत्तित्वं कारणत्वम् । दैवादागते रासभेऽतिव्याप्तिवारणाय नियतेति । 'कार्यनियतत्वम् कारणत्वम्' इत्युक्ते कार्येऽतिव्याप्तिः, यथा घटे घटनित्यत्वं वर्तते, अतः पूर्ववृत्तीति । ननु तन्तुरूपस्यापि पटं प्रति नियतपूर्ववृत्तित्वं वर्तते तत्रातिव्याप्तिः इति चेत् ? न, अनन्यथेति । रूपस्य पटं प्रति स्वाश्रयतन्तुव्यतिरेकेण पूर्ववृत्तित्वं नास्ति, तन्तून् आदायैव पूर्ववृत्तित्वं वर्तते, अतो रूपमन्यथासिद्धम् । तथाहि येन सहैवेति । अन्य प्रतीति । शब्द प्रति आकाशस्य पूर्ववृत्तित्वं गृहीत्वैव घटं प्रति गृह्यते । तत्र तावदाकाशत्वग्रहोऽपेक्षितः, कुतः ? पटं प्रति आकाशस्य आकाशत्वरूपेण पूर्ववृत्तित्वग्रहो भवति । 'तत्र एकव्यक्तिमात्रवृत्तिस्तु न जातिः' इति आकाशत्वं जातिस्तु न, किन्तु शब्दसमवायिकारणत्वम् आकाशत्वम्-शब्दनिरूपितान्यथासिद्धिशून्यत्वे सति शब्दाव्यवहितपूर्ववृत्तित्वम् । एवं च पटं प्रति आकाशस्यान्यथासिद्धत्वम् । अन्यत्रेति-अपाकजस्थले गन्धप्रागभावादेव गन्धसम्भवः स्यात् । ततः पाकजस्थले गन्धप्रागभावस्य सहभूता ये रूपरसस्पर्शप्रागभावाः तेषामन्यथासिद्धत्वं गन्धं प्रति । एवं रसादौ अपि । कार्यमा प्रति प्रागभावत्वेन कारणता । ननु प्रागभावस्य कारणता किमर्थं स्वीकृता ? उच्यते, उत्पन्नस्य पुनरुत्पादापतिवारणाय प्रागभावस्य कारणत्वम् । यथा घटोत्पत्तेरनन्तरं दण्डादिसकलसामग्रीसत्त्वेऽपि पुनरपि तदुत्पत्तिर्न, प्रागभावरूपस्य कारणस्य विनष्टत्वात् ।
[कार्यलक्षणम्] कार्य प्रागभावप्रतियोगि ।