________________
फक्तिकासमन्वित-दीपिकाव्याख्यासमेतः • ३१ इत्यर्थः । अनुभवं विभजते-स द्विविध इति ।
तद्भिन्नमिति । स्मृतिभिन्नत्वे सति ज्ञानत्वम् अनुभवस्य लक्षणम् । स्मृतावतिव्याप्तिवारणाय सत्यन्तम् । घटदौ अतिव्याप्तिवारणाय ज्ञानपदम् ।
[यथार्थानुभवलक्षणम्] तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा 'अयं घटः' इति ज्ञानम् । सैव प्रमेत्युच्यते ।
यथार्थानुभवं लक्षयति-तद्वतीति । ननु 'घटे घटत्वम्' इति प्रमायाम् अव्याप्तिः, घटत्वे घटाऽभावाद् इति चेत् ? न, 'यत्र यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभवः' इत्यर्थात् घटत्वेऽपि घटसम्बन्धोऽस्ति इति नाऽव्याप्तिः । स एवेति यथार्थानुभव एव शास्त्रे 'प्रमा' इत्युच्यते इत्यर्थः ।
तद्वतीति । तद्वतीति सप्तम्यन्तस्य तद्वद्विशेष्यकत्वरूपोऽर्थः । तद्वद्विशेष्यकत्वे सति, तत्प्रकारकत्वे सति, स्मृतिभिन्नत्वे सति ज्ञानत्वं 'यथार्थानुभवत्वं' । रजते 'इदं रजतम्' इत्याकारके यथार्थानुभवे वर्तते इदं लक्षणम् । अत्र रजतत्ववद्विशेष्यकत्वं रजतत्वप्रकारकानुभवत्वं च वर्तते । अत्र लक्षणे स्मृतावतिव्याप्तिवारणाय स्मृतिभिन्नेति । शुक्तौ 'इदं रजतम्' इत्याकारके अयथार्थानुभवेऽतिव्याप्तिवारणाय तद्वद्विशेष्यकेति, अत्र रजतत्ववदविशेष्यकत्वं नास्ति, 'इदं रजतं शुक्तिस्वरूपं दृश्यते' इत्यत्रातिव्याप्तिः, तद्वारणाय तत्प्रकारकेति । अत्र यद्यपि रजतत्ववद्विशेष्यकत्वं वर्तते तथापि तत्प्रकारकत्वं नास्ति, किन्तु शक्तित्वप्रकारकत्वं भासते । अथ 'इदं रजतं मे भवतु' इति इच्छायामतिव्याप्तिः, तद्वारणाय ज्ञानत्वमिति । यद्यप्यत्र इदंत्वावच्छिन्नविशेष्यकरजतत्वप्रकारकत्वमस्ति परं ज्ञानत्वं नास्ति । नन् घटे घटत्वमिति-अत्र घटत्वं विशेष्यं घटये विशेषणम् । इह घटप्रकारकत्वे सति, स्मृतिभिन्नत्वे सति ज्ञानत्वं तु अस्ति, परं घटवद्विशेष्यकत्वं नास्ति, कुतः ? घटत्वे घटाभावात्, एतेनाव्याप्तिः । मैवम्, यथार्थानुभवस्यायमर्थो विवक्षितः 'यत्र धर्मिणि यस्य धर्मस्य सम्बन्धोऽस्ति तत्र तत्सम्बन्धस्य अनुभवो यथार्थानुभव उच्यते इति
३२ . तर्कसंग्रहः सम्बन्धस्य उभयनिष्ठत्वं, तेन यद्यपि घटत्वे घटो नास्ति तथापि घटसम्बन्धोऽस्त्येव, स चात्र आधेयताख्यः । स एवेति-सैवेति पाठान्तरं, विधेयप्राधान्यात् स्त्रीलिङ्गनिर्देशो बोध्यः ।
[अयथार्थानुभवलक्षणम्] तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।।
अयथार्थानुभवं निरूपयति-तदभाववतीति । ननु 'इदं संयोगि' इति प्रमायाम् अतिव्याप्तिः इति चेत् ? न, यदवच्छेदेन यत्सम्बन्धाभावः तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात् । संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात् संयोगावच्छेदेन संयोगसम्बन्धस्य सत्त्वात् नातिव्याप्तिः ।
अयथार्थं लक्षयति-तदभाववद्विशेष्यकत्वे सति इति । ईयान् विशेषः शेषं पूर्ववत् । 'इदं रजतम्' इत्यत्रातिव्याप्तिवारणाय आद्यं पदम् । शुक्तौ 'इदं शुक्तिः' इत्यत्रातिव्याप्तिवारणाय द्वितीयम् । अत्र यद्यपि रजतत्वाभाववद्विशेष्यकत्वं वर्तते तथापि रजतत्वप्रकारकत्वं नास्ति । शुक्तौ 'इदं रजतम्' इति स्मृतावतिव्याप्तिवारणाय स्मृतिभिन्नेति । केनचित् शुक्तिरेव रजतत्वेनावगता, तत 'इदं मे भवतु' इति इच्छा जाता, तत्रातिव्याप्तिवारणाय ज्ञानत्वम् । ननु इदं संयोगीति-'वृक्षः कपिसंयोगी' अत्र संयोगवद्विशेष्यकत्वे सति संयोगप्रकारकानुभवत्वं वर्तते, अतः भवतीयं प्रमा, अत्र अप्रमालक्षणं गतम् । कुतः ? संयोगस्याव्याप्यवृत्तित्वात् । मैवम्, अयथार्थानुभवस्य अयमर्थो विवक्षितः यदिति-यन्मूलावच्छेदेन यत्कपिसम्बन्धाभावः, तन्मूलावच्छेदेन तन्मूलकपिसंयोगसम्बन्धज्ञानं भ्रमज्ञानं भवति । तादृग् ज्ञानम् अत्र मूलावच्छेदेन वर्तते परं शाखावच्छेदेन नास्ति, तेन नातिव्याप्तिः ।
[यथार्थानुभवविभागः] यथार्थानुभवश्चतुर्विधः प्रत्यक्षाऽनुमित्युपमितिशाब्दभेदात् ।