________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • २३
[रूपनिरूपणम्] चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्ल-नीलपीत-रक्त-कपिश-चित्र-भेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।
रूपं लक्षयति-चक्षुरिति । सङ्ख्यादौ अतिव्याप्तिवारणाय 'मात्र पदम् । रूपत्वे अतिव्याप्तिवारणाय 'गुण'पदम् । प्रभाभित्तिसंयोगे अतिव्याप्तिवारणाय-चक्षुर्मात्रग्राह्यजातिमत्त्वं वाच्यम् ।
रूपं विभजते-तच्चेति । नन्वव्याप्यवृत्ति नीलादिसमुदाय एव चित्ररूपम् इति चेत् ? न, रूपस्य व्याप्यवृत्तित्वनियमात् । ननु चित्रपटे अवयवरूपस्य प्रतीतिरस्तु इति चेत् ? न, रूपरहितत्वेन पटस्य अप्रत्यक्षत्वप्रसङ्गात् । न च रूपवत् समवेतं प्रत्यक्षत्वप्रयोजकं, गौरवात् । तस्मात् पटस्य प्रत्यक्षत्वानुपपत्त्या चित्ररूपसिद्धिः । रूपस्याश्रयमाह-पृथिवीति । आश्रयं विभज्य दर्शयति-तन्नेति ।
___अथ उद्देशक्रमप्राप्तान् गुणान् विभजते-चक्षुरिति । चक्षुर्मात्रग्राह्यत्वे सति गुणत्वं रूपलक्षणम् । अत्र ग्रहधातोर्ज्ञानरूपोऽर्थः । अग्रे समागतस्य 'कुहलोयॆत्' इति ण्यत्प्रत्ययस्य विषयरूपोऽर्थः । चक्षुर्मात्रशब्दः चक्षुर्मात्रजन्ये लाक्षणिकः । तत एवं वाच्यं-चक्षुर्मात्रजन्यग्रहविषयत्वे सति गुणः । ननु गुणत्वमित्येवास्तु चक्षुरित्यादि सत्यन्तं पदं माऽस्तु इति चेत् ? न, रूपातिरिक्तत्रयोविंशतिगुणेषु अतिव्याप्तिप्रसङ्गात् । ननु गुणपदं माऽस्तु इति चेत् ? न, येन येन इन्द्रियेण ये ये गुणा गृह्यन्ते तेन तेन तद्गता जातयस्तदभावाश्च इति न्यायात् रूपत्वे रूपाभावे चातिव्याप्तिप्रसङ्गात् । तथा मात्रपदोपादानं तु सङ्ख्यादावतिव्याप्तिवारणाय कृतम् । मात्रशब्दं पृथक्कृत्य अयमर्थो विधेय:-चक्षुरितरबहिरिन्द्रियजन्यग्रहाविषयत्वे सति चक्षुर्जन्यग्रहविषयत्वे सति गुणत्वं रूपलक्षणम् । सङ्ख्यादौ चक्षुरितर
२४ • तर्कसंग्रहः बहिरिन्द्रियजन्यग्रहस्याविषयत्वं नास्ति । चक्षुषः सकाशाद् इतरद् बहिर्द्रव्यं किं भवति ? त्वगादिकम्, तज्जन्यो यो ग्रहो ज्ञानं, तस्य विषयत्वं वर्तते । अन्यैरिन्द्रियैः कृत्वापि सङ्ख्यादिबोधो भवतीत्यर्थः । अतो नातिव्याप्तिः अथैवमुच्यते चेत् प्रभाभित्तिसंयोगेऽतिव्याप्तिः, तदर्थं 'विशेष'पदं वाच्यम् । ततः किंलक्षणम् ? चक्षुरितरबहिरिन्द्रियजन्यग्रहाविषयत्वे सति चक्षुर्जन्यग्रहविषयत्वे सति विशेषगुणत्वं रूपलक्षणम् । संयोगस्तावत् सामान्यगुण: इति कृत्वा तत्र नातिव्याप्तिः । ननु विशेषपदेनैव सङ्ख्यादावपि अतिव्याप्त्यभावो भविष्यति सङ्ख्यादेः सामान्यगुणत्वात् ततस्तदर्थं 'मात्र'पदग्रहणं व्यर्थमिति चेत् ? न, मात्रपदं नोच्यते चेत् सांसिद्धिकद्रवत्वे अतिव्याप्तिः स्यात्, तस्मिन् उक्ते तु तस्य विशेषगुणत्वेऽपि चक्षुरितरबहिरिन्द्रियजन्यज्ञानस्य अविषयत्वं नास्ति, अतो नातिव्याप्तिः । अथ अस्मिन् लक्षणे चक्षुःपदं नोच्यते चेद् रूपेऽसम्भवदोषः स्यात् । कथम् ? तदाह-त्वगादेः सकाशादितरद् बहिरिन्द्रियं किं भवति ? चक्षुः, तज्जन्यो यो ग्रहो ज्ञानं तद्विषयत्वं वर्तते रूपे न तु तदविषयत्वमित्यसम्भवः । अथ बहि: पदं नोच्यते चेत् पुनरपि रूपे असम्भवः । कथम् ? चक्षुषः साक्षादितरद् इन्द्रियं किं भवति ? मनः, तज्जन्यग्रहाविषयत्वं रूपे नास्ति अतोऽसम्भवः । अथेन्द्रियपदं नोच्यते चेत् पुनरपि रूपेऽसम्भवः । कथम् ? चक्षुषः सकाशाद् इतरो बहि: किं भवति ? कालः, तज्जन्यग्रहाविषयत्वं नास्ति, अतोऽसम्भवः । अथ द्वितीये सत्यन्तपदे चक्षुः पदं नोच्यते चेत् धर्माधर्मयोरतिव्याप्तिः, तयोरात्मगुणत्वात्, तदर्थं चक्षुःपदं वाच्यमेव । ननु अस्मिन् लक्षणे क्रियमाणे रूपेऽसम्भवदोषस्य तु तादवस्थ्यमेवास्ति । कुतः ? चक्षुषः सकाशादितरद् इन्द्रियं त्वगादि, तज्जन्यं ज्ञानं कीदृग् भवति ? गुणत्वरूपसामान्यलक्षणप्रत्यासत्त्या गुणत्वविशिष्टाः सर्वे गुणा इत्याकारकम् अलौकिकं ज्ञानं भवति, रूपे तु तद्विषयत्वं वर्तते, अतो असम्भवः इति चेद् उच्यते, चक्षुरितरबहिरिन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वे सति चक्षुर्जन्यलौकिकप्रत्यक्षविषयत्वे सति विशेषगुणत्वं रूपलक्षणमित्यभिमतत्वान्न दोषः । [इति रूपनिरूपणम्]