________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • २५ (रसमारभ्य पृथक्त्वपर्यन्तं फक्किकाकारेण न किञ्चिद् लिखितम् )
[रसनिरूपणम्] रसनग्राह्यो गुणो रसः । स च मधुराऽऽम्ललवण कटु-कषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ।।
रसं लक्षयति-रसनेति । रसत्वे अतिव्याप्तिवारणाय गुणपदम् । रसस्याश्रयमाह-पृथिवीति । आश्रयं विभज्य दर्शयति पृथिव्यामिति ।
[गन्धनिरूपणम्] घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।
गन्धं लक्षयति-घ्राणेति । गन्धत्वे अतिव्याप्तिवारणाय गुणपदम् ।
[स्पर्शनिरूपणम्] त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः । शीतोष्णाऽनुष्णाऽशीतभेदात् । पृथिवीजलतेजोवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।।
स्पर्श लक्षयति-त्वगिति । स्पर्शत्वे अतिव्याप्तिवारणाय गुणपदम् । संयोगादौ अतिव्याप्तिवारणाय मात्रपदम् ।
[पाकजनिरूपणम्] रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रा
२६ • तर्कसंग्रहः पाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।
पाकजमिति । पाकः-तेजःसंयोगः । तेन पूर्वरूपं नश्यति, रूपान्तरमुत्पद्यते इत्यर्थः । अत्र परमाणुष्वेव पाको, न त्र्यणुकादौ । आमपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनर्यणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकारणम्, तेजःसंयोगोऽसमवायिकारणम्, अदृष्टादिकं निमित्तकारणम् । व्यणुकादिरूपे 'कारणरूपम् असमवायिकारणम्' इति पीलुपाकवादिनो वैशेषिकाः । 'पूर्वघटनाशं विनैव अवयविनि अवयवेषु परमाणुपर्यन्तेषु च युगपद्पान्तरोत्पत्तिः इति पिठरपाकवादिनो नैयायिकाः । अत एव पार्थिवपरमाणुषु रूपादिकमनित्यम् इत्यर्थः । अन्यत्रेति जलादौ इत्यर्थः । नित्यगतमिति परमाणुगतम् इत्यर्थः । अनित्यगतमिति द्वयणुकादिनिष्ठम् इत्यर्थः । रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् । अनुद्भूतम् अप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः । तदभावः अनुद्भूतत्वम् ।
[सङ्ख्यानिरूपणम्] एकत्वादिव्यवहारहेतुः सङ्ख्या । सा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव । सङ्ख्यां लक्षयति-एकेति ।
[परिमाणनिरूपणम्] मानव्यवहाराऽसाधारणं कारणं परिमाणम् । नव