________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • २१
[आत्मनिरूपणम्] ज्ञानाधिकरणमात्मा । स द्विविधः । परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।
आत्मनो लक्षणमाह-ज्ञानेति । आत्मानं विभजते-स द्विविध इति । परमात्मनो लक्षणमाह-तत्रेति । नित्यज्ञानाधिकरणत्वम् ईश्वरत्वम् । नन्वीश्वरस्य सद्भावे किं प्रमाणम् ? न तावत् प्रत्यक्षम्, तद्धि बाह्यमाभ्यतरं वा ? नाद्यम्, अरूपिद्रव्यत्वात् । नान्त्यम्, आत्मसुखादिव्यतिरिक्तत्वात् । नाप्यनुमानम्, लिङ्गाभावात् । नाप्यागमः तथाविधागमाभावात् इति चेत् ? न, 'क्षित्यङ्करादिकं, कर्तृजन्यं, कार्यत्वाद्-घटवत्' इत्यनुमानस्य प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकलपरमाण्वादिसूक्ष्मदर्शित्वात् सर्वज्ञत्वम् । 'यः सर्वज्ञः स सर्ववित्' [ ] इत्यागमोऽपि तत्र प्रमाणम् ।
जीवस्य लक्षणमाह-जीव इति । सुखादिकं जीवलक्षणम् । ननु 'मनुष्योऽहं' 'ब्राह्मणोऽहम्' इत्यादौ सर्वत्र 'अहम्' प्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मा इति चेत् ? न, शरीरस्याऽऽत्मत्वे करपादादिनाशे शरीरनाशाद् आत्मनोऽपि नाशापत्तेः । नापि इन्द्रियाणाम् आत्मत्वम् । तथात्वे "योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि" इत्यनुसन्धानाभावप्रसङ्गात् । अन्यानुभूतेऽन्यस्यानुसन्धानायोगात् । तस्माद् देहेन्द्रियव्यतिरिक्तो जीव, सुखादिवैचित्र्यात् प्रतिशरीरं भिन्नः । स च न परमाणुपरिमाणः, शरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरिमाणः, तथा सति अनित्यत्वप्रसङ्गेन कृतहानाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ।
उपादानेति । उपादानगोचरं समवायिकारणविषयकं यत् प्रत्यक्षज्ञानम्,
२२ . तर्कसंग्रहः उपादानगोचरा या चिकीर्षा, उपादानगोचरा या कृतिः, तद्वत्त्वं कर्तृत्वम् । नापीन्द्रियाणामिति । पूर्वं घटो दृष्टः, ततो दैवयोगात् चक्षुषी नष्टे, तदनन्तरं पुनरपि तस्यैव घटस्य स्पर्श सति स वक्ति योऽहमिति । यदि इन्द्रियाणामात्मत्वं तर्हि घटस्यानुभवस्तु चक्षुषो जातः, स्मरणं त्वगिन्द्रियस्य न सङ्गच्छते । यथा चैत्रानुभूते मैत्रस्य स्मरणं न स्यादिति ।
[मनोनिरूपणम्] सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।
मनसो लक्षणमाह-सुखेति । स्पर्शरहितत्वे सति क्रियावत्त्वं मनसो लक्षणम् । मनो विभजते-तच्चेति । एकैकस्यात्मन एकैकं मन आवश्यकम् इति आत्मनामनेकत्वान्मनसामप्यनेकत्वम् इत्यर्थः । परमाणुरूपमिति । मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गाद् इत्यर्थः । ननु 'मनो, विभु, स्पर्शरहितद्रव्यत्वाद् इति चेत् ? न, मनसो विभुत्वे आत्ममनःसंयोगास्यासमवायिकारणस्याभावाद् ज्ञानानुत्पत्तिप्रसङ्गात् । न च विभुद्वयसंयोगोऽस्तु इति वाच्यम्, तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात् । पुरीतदव्यतिरिक्तप्रदेशे आत्ममनःसंयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः पुरीतति नाड्यां प्रविशति तदा सुषुप्तिः, यदा निःसरति तदा ज्ञानोत्पत्तिः, इत्यणुत्वसिद्धिः ।
[इति द्रव्याणि] सुखेति-सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसो लक्षणम् । आत्मन्यव्याप्तिवारणाय इन्द्रियेति । चक्षुरादौ अतिव्याप्तिवारणाय पूर्वदलम् । आत्ममनःसंयोग इति । कार्यं ज्ञानं तेन सह एकस्मिन्नात्मनि समवेतत्वे सति कारणम् आत्ममन:संयोगः । ज्ञानत्वावच्छिन्नं प्रति पुरीततिबहिर्देशावच्छिन्नात्ममन:संयोगत्वेन कारणता, पुरीतत्यन्तर्देशावच्छिन्नसंयोगत्वेन नेत्यर्थः इति द्रव्याणि ॥