________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • १९ लौकिकविषयतासम्बन्धेन बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति समवायसम्बन्धेन उद्भूतरूपत्वेन कारणता । कार्य बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षं, कार्यता बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे, कार्यतावच्छेदकं बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वं, कारणम् उद्भूतरूपम्, अग्रे पूर्ववत् । कार्यतावच्छेदकः सम्बन्धः, [कार्यतावच्छेदको] वा लौकिकविषयतासम्बन्धः, कारणतावच्छेदको वा समवायसम्बन्धः । वायौ उद्भूतरूपाभावात् प्रत्यक्षज्ञानं नास्ति । ननु वायुः प्रत्यक्ष इत्यादि । अत्र उद्भूतरूपवत्त्वम् उपाधिः । को वायम् उपाधिः ? पक्षधर्मावच्छिन्नसाध्यव्यापक: । पक्षधर्मः को वा ? बहिर्द्रव्यत्वम्, यत्र यत्र बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं, तत्र तत्र उद्भूतरूपवत्त्वं, यथा बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं वर्तते घटादौ, तत्र उद्भूतं रूपं वर्तते, इति उद्भूतरूपस्य साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्वं कथम् ? साधनं किं भवति ? प्रत्यक्षस्पर्शाश्रयत्वं, तद् वायौ वर्तते, तत्र उद्भूतरूपं नास्ति, एवं साधनाव्यापकत्वम् । न चेति तप्तवारिस्थं तेजः प्रत्यक्षं प्रत्यक्षस्पर्शाश्रयत्वादिति ।
ईश्वरस्येति । यदा ईश्वरस्य चिकीर्षा जायते तदा परमाणुषु क्रिया समुत्पद्यते । नन ईश्वरेच्छा नित्या, तहि कथं जायते इति, उच्यते ? इच्छा तु सर्वदाऽस्त्येव, परं फलोन्मुखा जायते इत्यर्थो बोध्यः । त्रिभिट्ट्यणुकैः इति । ननु सर्वत्र द्वाभ्यामेव व्यवहारः, त्रिभिरिति कथम् ? उच्यते त्र्यणुकेऽपकृष्टं महत्त्वं वर्तते, तद् बहुत्वजन्यं भवति । द्वाभ्यां तु बहुत्वं न स्यात् यत्रावयवेषु बहुत्वं तत्रावयविन्यपि बहुत्वं स्यादित्यर्थः । द्वयणुकनाश इति । व्यणुकनाशत्वावच्छिन्नं प्रति परमाणद्वयसंयोगनाशत्वेन कारणता, त्र्यणुकादिनाशत्वावच्छिन्नं प्रति व्यणुकादिनाशत्वेन कारणता इति प्राञ्चः । महदिति । महतः आरम्भको महान् तन्तुर्यथा महतः पटस्य आरम्भकस्तथा त्र्यणुकावयवोऽपि महतस्त्रयणुकस्यारम्भकः । नन परमाणौ नित्यत्वं वा कार्यत्वम् ? अत्रोच्यते, नित्यत्वं वर्तते । कार्यत्वे सति अनवस्थादोषप्रसङ्गः स्यात् । कथम् ? कार्यत्वं सावयवत्वव्याप्यं भवति, ततश्च परमाणोः सावयवत्वे तदवयवस्यापि सावयवत्वम् इत्येवमनवस्था स्यात् । सृष्टीति सृष्टिसद्भावे प्रलयसद्भावे च प्रमाणं श्रुतिः यथा धातेत्यादि । धाता यथा सृष्टि पूर्वमकल्पयत् तथा साम्प्रतमपि । एतेन मध्ये प्रलयः सूचितः । प्रलयो द्विविधः । सर्वेति ।
२०. तर्कसंग्रहः द्रव्यपदेन पृथिव्याः परमाणुगतरूपादीनां पाकजानामपि ध्वंसो न इत्यर्थो बोध्यः, महाप्रलये तु तेषामपि नाशः । ततः सर्वं शून्यमेव तिष्ठति । तादृशः प्रलयो न इत्येके ॥
[आकाशनिरूपणम्] शब्दगुणकम् आकाशम् । तच्चैकं विभु नित्यं च ।
आकाशं लक्षयति-शब्दगुणकमिति । ननु किमाकाशं पृथिव्यादिवन्नाना ? नेत्याह-तच्चैकमिति । भेदे प्रमाणाभावादित्यर्थः । एकत्वादेव सर्वत्रोपलब्धेविभुत्वमङ्गीकर्तव्यमित्याहविभ्विति । सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् । मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा । विभुत्वादेव आत्मवत् नित्यत्वमित्याह -नित्यं चेति ।
मूर्तेति-पृथिव्यप्तेजोवायुमनांसि मूर्तद्रव्याणि । मनःस्थाने आकाशे उक्ते तु पञ्चभूतानि स्युः ॥
[कालनिरूपणम्] अतीतादिव्यवहारहेतुः कालः । स चैको विभुनित्यश्च ।
कालं लक्षयति-अतीतेति । सर्वाधारः कालः सर्वकार्ये निमित्त कारणं च । काल इति-कार्यत्वावच्छिन्नं प्रति कालत्वेन कारणता ।
[दिङ्-निरूपणम्] प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ।
दिशो लक्षणमाह-प्राचीति । दिगपि कार्यमात्रे निमित्तकारणम् ।