________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • १७ पार्थिवभागो वर्तते । एवं तर्हि अत्यन्तानलसंयोगे सति तत्र द्रवत्वनाशे कि प्रतिबन्धकम् ? अत्रोच्यते, पीतद्रव्ये यद् द्रवत्वं तस्य नाशे प्रतिबन्धक किञ्चिद् द्रवद्रव्यान्तरं सिद्धं, तत् तैजसं भवतीत्यर्थः ।
वायुनिरूपणम्] रूपरहितः स्पर्शवान् वायुः । स द्विविधः । नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः ।
पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तःसञ्चारी वायुः प्राणः । स चैकोऽपि उपाधिभेदात् प्राणाऽपानादिसञ्ज्ञां लभते ॥
__ वायु निरूपयति-रूपरहितेति । आकाशादौ अतिव्याप्तिवारणाय स्पर्शवान् इति । पृथिव्यादौ अतिव्याप्तिवारणाय रूपरहितेति । ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह-शरीरेति । स चेति । एक एव प्राणः स्थानभेदात् प्राणापानादिशब्दैर्व्यवहियते इत्यर्थः ।
स्पर्शानुमेयो वायुः । तथाहि-'योऽयं वायौ वाति सति अनुष्णाशीतः स्पर्शो भासते स स्पर्शः क्वचिदाश्रितः-गुणत्वात्, रूपवत्' । न चास्य पृथिवी आश्रयः, उद्भूतस्पर्शवतः पार्थिवस्य उद्भूतरूपवत्त्वनियमात् । न जलतेजसी, अनुष्णाशीतत्वात् । न विभुचतुष्टयम्, सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् । तस्माद् यः प्रतीयमानस्पर्शाश्रयः स वायुः । ननु 'वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद् घटवत् इति चेत् ? न, उद्भूतरूपवत्त्वस्योपाधित्वात् । यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं तत्र 'उद्भूतरूपवत्त्वम्' इति घटादौ साध्यव्यापकत्वम् । यत्र प्रत्यक्षस्पर्शाऽऽश्रयत्वं 'तत्र उद्भूतरूपवत्त्वं नास्ति' इति पक्षे साधना
१८. तर्कसंग्रहः व्यापकत्वम् । न चैवं तप्तवारिस्थतेजसोऽप्यप्रत्यक्षत्वापत्तिः, इष्टत्वात् । तस्माद् रूपरहितत्वाद् वायुरप्रत्यक्षः ॥
जगत उत्पत्तिविनाशनिरूपणम्] इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्य उत्पत्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात् परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे सति व्यणुकमुत्पद्यते । त्रिभियणुकैः त्र्यणुकम् । एवं चतुरणुकादिक्रमेण महती पृथिवी, महत्य आपः, महत् तेजः, महान् वायुः उत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात् परमाणुषु क्रिया । क्रियया परमाणुद्वयविभागे सति व्यणुकस्य नाशः । ततः त्र्यणुकस्य, ततः चतुरणुकस्य, इत्येवं महापृथिव्यादिनाशः । असमवायिकारणनाशाद द्वयणकनाशः, समवायिकारणनाशात् त्र्यणुकनाशः इति सम्प्रदायः । सर्वत्र असमवायिकारणनाशाद् द्रव्यनाश इति नवीनाः ।
किं पुनः परमाणुसद्भावे प्रमाणम् ? उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद् रजो दृश्यते तत्-सावयवं-चाक्षुषद्रव्यत्वात् पटवत् । त्र्यणुकावयवोऽपि सावयवः-महदारम्भकत्वात्, तन्तुवत् । यो व्यणुकावयवः, स एव परमाणुः । स च नित्यः । तस्याऽपि कार्यत्वेऽनवस्थाप्रसङ्गात् । तथा च मेरुसर्षपयोरपि तुल्यपरिणाणापत्तेः ।
सृष्टिप्रलयसद्भावे 'धाता यथापूर्वमकल्पयत्' [ ] इति श्रुतिः प्रमाणम् । सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः । सर्वभावकार्यध्वंसो महाप्रलयः इति विवेकः ॥
प्राणः पञ्चधाहदि प्राणो गुदेऽपानः, समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ [ ]