________________
फक्किकासमन्वित- दीपिकाव्याख्यासमेतः • १५
शब्देतरोद्भूतविशेषगुणानाश्रयत्वं नास्ति । कालदिशो: अतिव्याप्तिवारणाय विशेष्यदलम् । अथ पुनः कालादौ अतिव्याप्तिवारणाय ज्ञानकारणपदम् । कालमनः संयोगो ज्ञानकारणं न भवति । अथ मनः पदं नोच्यते चेत् इन्द्रियावयवे अतिव्याप्तिः । इन्द्रियावयवविषयसंयोगोऽपि ज्ञानकारणं भवति, परं तत्र मनः संयोगो नास्ति । ननु इन्द्रियत्वं जातिर्वा उपाधिर्वा ? उच्यते, इन्द्रियत्वं जातिर्नास्ति, सङ्करात् यदाह उदयनाचार्यः जातिलक्षणसङ्ग्रहे 'यत्र सङ्करस्तत्र जातिर्न' [ ] इति । सङ्करः किम् ? उच्यते परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः सङ्करः । यथा - इन्द्रियत्वात्यन्ताभाववति तेजसि तेजस्त्वं वर्तते, तेजस्त्वात्यन्ताभाववति इन्द्रिये इन्द्रियत्वं वर्तते चक्षुरिन्द्रिये उभयोरपि समावेशः । एवमन्यत्रापि । जातिभिन्नो धर्म उपाधिः ॥ [जलनिरूपणम् ]
शीतस्पर्शवत्य आपः । ता द्विविधाः । नित्याः अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्य
रूपाः ।
पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥
अपां लक्षणमाह शीतेति । उत्पन्नविनष्टे जले अव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वे तात्पर्यम् । 'शीतं शिलातलम्' इत्यादौ जलसम्बन्धादेव शीतस्पर्शभानम् इति नातिव्याप्तिः । अन्यत् सर्वं पूर्वरीत्या व्याख्येयम् ॥
[तेजोनिरूपणम्]
उष्णस्पर्शवत् तेजः । तच्च द्विविधम् । नित्यम् अनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् ।
१६ • तर्कसंग्रहः
पुनस्त्रिविधम् । शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः । भौम- दिव्यौदर्याकरजभेदान् । भौमं वहन्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥
तेजसो लक्षणमाह-उष्णस्पर्शवदिति । 'उष्णं जलम्' इति प्रतीतेः तेजः सम्बन्धानुविधायित्वात् नातिव्याप्तिः । विषयं विभजतेभौमेति ।
ननु सुवर्णं पार्थिवं, पीतत्वाद्, गुरुत्वाद्, हरिद्रावद् इति चेत् ? न, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाशादर्शनेन, असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधाणात् । सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणेन पार्थिवत्वानुपपत्तेः । तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धाद् अनुपलब्धिः । तस्मात् सुवर्णं तैजसम् इति सिद्धम् ॥
ननु इत्यादि । सुवर्णं पार्थिवं, पीतत्वात्, सुवर्णं न तैजसं गुरुत्वात् । एवं हेतुद्वयं योज्यम्, अन्यथा एकवाक्ये हेतुद्वयवैफल्यादित्यर्थः । अत्र केचित् 'सुवर्णं पार्थिवं पीतत्वे सति गुरुत्वात्, जलेऽतिव्याप्तिवारणाय सत्यन्तम्, उद्यदादित्यालोकेऽतिव्याप्तिवारणाय 'गुरुत्वात्' इति पदमित्याहु: ' अत्रोच्यते, असति प्रतिबन्धके पार्थिवद्रवत्वनाशत्वावच्छिन्नं प्रति अत्यन्तानलसंयोगत्वेन कारणता, परं सुवर्णे तु सा नास्ति, अतो न सुवर्णं पार्थिवम् । ननु सुवर्णं तैजसं तर्हि तत्र पीतत्वं गुरुत्वं च कथम् ? उच्यते, तत्र पीतिमगुरुत्वाश्रयीभूतः