________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • १३
पृथिवी, लक्ष्यता पृथिव्यां लक्ष्यतावच्छेदकं पृथिवीत्वम् । यत्र यत्र गन्धस्तत्र तत्र पृथिवीत्वम् इति कृत्वा गन्धे लक्ष्यतावच्छेकव्याप्यत्वं वर्तते । एवं यत्र यत्र लक्ष्यतावच्छेदकं पृथिवीत्वं तत्र तत्र गन्ध इति कृत्वा गन्धे लक्ष्यतावच्छेदकव्यापकत्वमपि वर्तते इति । 'व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्' इति वचनाद् व्यावर्तकस्यैव = इतरभेदानुमापकस्यैव लक्षणत्वे सति व्यावृत्तौ अभिधेयत्वादौ चातिव्याप्तिः । कथम् ? पृथिवी इतरेभ्यो भिद्यते, इतरभिन्नत्वाद् एषा व्यावृत्तिः । इह च यत्र यत्र पृथिवीतरभेदः तत्र तत्र लक्ष्यतावच्छेदकं पृथिवीत्वमिति कृत्वा व्यावृत्तौ लक्ष्यतावच्छेदकव्याप्यत्वं वर्तते । एवं यत्र यत्र लक्ष्यतावच्छेदकं पृथिवीत्वं तत्र तत्र पृथिवीतरभेदः इति कृत्वा व्यावृत्तौ लक्ष्यतावच्छेदकव्यापकत्वमपि वर्तते इति तत्रातिव्याप्तिः । व्यावृत्तेर्व्यावर्तकत्वं नास्तीत्यतोऽलक्ष्यत्वम् एवमभिधेयत्वेऽपि यथा पदार्था इतरेभ्यो भिद्यन्ते अभिधेयत्वात् । इह च यत्र यत्र अभिधेयत्वं तत्र तत्र लक्ष्यतावच्छेदकं पदार्थत्वम् इति अभिधेयत्वे लक्ष्यतावच्छेदकव्याप्यत्वं वर्तते । एवं यत्र यत्र लक्ष्यतावच्छेकव्यापकं पदार्थत्वं तत्र तत्र अभिधेयत्वम् इति अभिधेयत्वे लक्ष्यतावच्छेदकव्यापकत्वमपि वर्तते इति कृत्वा तत्रातिव्याप्तिः । अस्यापि व्यावर्तकत्वं नास्ति अतोऽलक्ष्यत्वं ततश्च तयोरतिव्याप्तिवारणाय तद्भिन्नत्वं विशेषणं देयम् । तथा च व्यावृत्तिभिन्नत्वे सति, अभिधेयत्वादिभिन्नत्वे सति लक्ष्यतावच्छेकसमनियतत्वम् असाधारणत्वम् इति सिद्धम् । व्यवहारस्यापि अयं घटः पृथिवी इति व्यवहर्तव्यः पृथिवीतरभेदात् तथाऽयं घटः पृथिवी इति व्यवहर्तव्य अभिधेयत्वाद् अन्यघटवद् इत्याद्यनुमानात् तयोरपि लक्ष्यत्वात् ।
अथ परीक्षालक्षणमुच्यते । लक्षितस्य लक्षणमुपपद्यते न वा इति विचार: परीक्षा निर्णय इत्यर्थः । इह विचारः परीक्षा इत्येव उच्यते चेत् मूर्खविचारे अतिव्याप्तिः, तदर्थं लक्षितस्येत्याद्युक्तम् । का वा मूर्खविचारणा ? उच्यते,
दन्ताः कियन्तः काकस्य, मेषस्याण्डं कियत् पलम् । गर्दभस्य किल्लिङ्गम् एषा मूर्खविचारणा ॥१॥ इत्यादि । गन्धसमानाधिकरणेत्यादि । गन्धसमानाधिकरणा नाम गन्धाधिकरणे
१४ • तर्कसंग्रहः वर्तमाना, अथ च द्रव्यत्वापरा = द्रव्यत्वव्याप्या-द्रव्यत्वापेक्षया न्यूनदेशवर्तिनी एतादृशी या जातिः पृथिवीत्वरूपा जातिः, तद्वत्त्वं वर्तते पृथिव्याम् इति कृत्वा लक्षणसङ्गतिः । अतः परं तादृशजातेः तत्रापि सत्त्वान्नातिव्याप्तिः । अत्र जातिमत्त्वम् इति उच्यते चेत्, सत्ताजातिमादाय जलादौ गुणकर्मणोश्च अतिव्याप्तिः, तदर्थं 'द्रव्यत्वापरा' इति पदम् । अतः परं गुणकर्मणोर्नातिव्याप्तिः परं जलादौ अतिव्याप्तेः तादवस्थ्यम् एव तदर्थं गन्धसमानाधिकरणेति । गन्धसमानाधिकरणत्वं गन्धाधिकरणवर्तित्वम् । अथ सम्बन्धो निवेशनीयः समवायसम्बन्धेन गन्धाधिकरणं पृथिवी, तत्र वर्तित्वम् । ननु तत्र कालिकसम्बन्धेन जलत्वमपि वर्तते ततो जलेऽतिव्याप्तिः ? अत्रोच्यते- 'समवायसम्बन्धेन गन्धाधिकरणे समवायसम्बन्धेन वर्तित्वम् इति गन्धसमानाधिकरणार्थो विवक्षितः तेन न दोषः । नन्विति - 'सुरभिजलम्' इत्यत्र यत्र यत्र गन्धप्रतीतिसत्त्वं तत्र तत्र पृथिवीसम्बन्धसत्त्वम्, यत्र यत्र पृथिवीसम्बन्धाभावः तत्र तत्र गन्धप्रतीत्यभावः, इति अन्वयव्यतिरेकाभ्यां पृथिवीगन्ध एव भासते नान्य इत्यर्थः ।
यदवच्छिन्नेति - शरीरावच्छिन्नेत्यर्थः । तेन घटाद्यवच्छेदेन सत्यप्यात्मनि तत्र भोगाभावात् न तद्भोगायतनमित्यर्थः ।
इन्द्रियलक्षणमाह ( शब्देतरोद्भूतेति ) । शब्दाद् इतरे ये उद्भूता विशेषगुणाः रूपादयः तदनाश्रयत्वं वर्तते मनसि अथ च ज्ञानस्य कारणीभूतो यो मन:संयोगः-आत्ममनः संयोगः तदाश्रयत्वमपि वर्तते, इति कृत्वा मनसि लक्षणसमन्वयः । एवं शब्देतरोद्भूतविशेषगुणा रूपादयः अनाश्रयत्वं वर्तते चक्षुरादौ, अथ च ज्ञानस्य कारणीभूतो यो मनः संयोगः चक्षुरादिमन:संयोग:, तदाश्रयत्वं वर्तते चक्षुरादौ, इति कृत्वा चक्षुरादौ सर्वत्र लक्षणं बोध्यम् । अत्र श्रोत्रेन्द्रियेऽव्याप्तिवारणाय शब्देतरेति । उद्भूतविशेषगुणः शब्दः श्रोत्रे, तदनाश्रयत्वं नास्ति । अत्र 'उद्भूत' पदं नोच्यते चेत् चक्षुरादौ अव्याप्तिः कथम् ? शब्दाद् इतरे ये विशेषगुणा रूपादयः, तदनाश्रयत्वं नास्ति, चक्षुरादीनाम् अनुद्भूतरूप(व)त्त्वात् । अथ 'विशेष' पदं नोच्यते चेत् चक्षुरादौ असम्भवः । कथम् ? शब्दाद् इतरे उद्भूतगुणाः के ? संयोगादयः, तदनाश्रयत्वं नास्ति । अत्र आत्मन्यतिव्याप्तिवारणाय शब्देतरेत्यादि सत्यन्तं पदम् । यद्यपि आत्मनि ज्ञानस्य कारणीभूतो यो मन:संयोगः आत्ममनः संयोगः, तदाश्रयत्वं वर्तते तथापि