________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ११
समवायस्य भेदो नास्तीत्यत आह- समवायस्त्विति ॥
[अभावविभागः ]
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ।
अभावं विभजते- अभाव इति ॥
[पृथिवीनिरूपणम्]
तत्र गन्धवती पृथिवी । सा द्विविधा । नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा ।
पुनस्त्रिविधा । शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषणादिः ।
तत्रोद्देशक्रमेण क्रमानुसारेण प्रथमं पृथिव्याः लक्षणमाह-गन्धवतीति । नाम्ना पदार्थसङ्कीर्तनमुद्देशः । उद्देशक्रमे च सर्वत्र इच्छेव नियामिका ।
ननु सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादाद् अव्याप्तिः । न च गन्धप्रतीत्यनुपपत्तिरिति वाच्यम्, अवयवगन्धस्यैव तत्र भानसम्भवेन चित्रगन्धानङ्गीकारात् । किञ्च- उत्पन्नविनष्टघटादौ अव्याप्तिः इति चेत् ? न गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् ।
ननु जलादावपि गन्धप्रतीतेः अतिव्याप्तिः इति चेत् ? न, अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां तत्रातिव्याप्तिः इति चेत् ? ? न,
१२ • तर्कसंग्रहः
सर्वाधारताप्रयोजकसम्बन्धभिन्नसम्बन्धेन लक्षणस्याभिमतत्वात् ।
पृथिवीं विभजते-सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । ध्वंसप्रतियोगित्वम् अनित्यत्वम् । प्रकारान्तरेण विभजते पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद् भोगायतनम् । सुखदुःखान्यतरसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमन:संयोगाश्रयत्वम् इन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषयः, इति तल्लक्षणं बोध्यम् । पार्थिवं शरीरं दर्शयतिशरीरमिति । पार्थिवेन्द्रियं दर्शयति- इन्द्रियमिति । गन्धग्राहकमिति प्रयोजनकथनम् । घ्राणमिति सञ्ज्ञा । नासाग्रेति आश्रयोक्तिः एवमुत्तरत्र ज्ञेयम् । पार्थिवविषयं दर्शयति-मृत्पाषाणेति ॥
अथ यावद् उद्देशलक्षणपरीक्षाः न क्रियन्ते तावद् पदार्थानां बोधो न भवतीति वचनात् आदौ उद्देशं विधाय तत्क्रमानुसारेण पृथिव्या लक्षणमाहगन्धवतीति । किं नाम उद्देशत्वम् ? नाममात्रेण पदार्थसङ्कीर्तनत्वम् उद्देशत्वम् । ताल्वोष्टपुटव्यापारेणोच्चारणं सङ्कीर्तनम् । इह वंशे पाट्यमाने दलद्वयविभागजन्यचटचटशब्दे अतिव्याप्तिवारणाय 'सं' पदम् । काकरवे अतिव्याप्तिवारणाय नामपदम् । वन्ध्यापुत्रे अतिव्याप्तिवारणाय पदार्थपदम् । लक्षणवाक्ये अतिव्याप्तिवारणाय मात्रपदम् ।
तथा असाधारणधर्मो लक्षणम् । असाधारणत्वं नाम लक्ष्यतावच्छेदकसमनियतत्वम् । लक्ष्यतावच्छेदकसमनियतत्वं नाम लक्ष्यतावच्छेदकव्याप्यत्वे सति लक्ष्यतावच्छेदकव्यापकत्वम् । यावन्ति लक्षणानि तानि सर्वाण्यपि लक्ष्याणि तेषां लक्षणमिदम् ।
अथ पृथिव्या लक्षणं गन्धः, तत्रेदं लक्षणमानेयम्-तथा हि- अत्र पृथिवीम् उद्दिश्य गन्धवत्त्वं तस्या लक्षणं विधीयते । कुतः ? लक्ष्यमुद्दिश्य लक्षणस्य प्रवृत्तेः । यदुद्दिश्य लक्षणं क्रियते तल्लक्ष्यम् इति कृत्वा लक्ष्या