________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ९ आद्यक्षणे इति । आद्यक्षणावच्छिन्ने द्रव्ये इत्यर्थः । आद्यक्षणे द्रव्यं निर्गुणमेवोत्पद्यते । पश्चात् तत्समवेता गुणा जायन्ते इत्युक्तत्वात् तत्राऽव्याप्तिः । ननु द्रव्यगुणयोर्युगपदेवोत्पत्तिः कुतो न ? उच्यते, सव्येतरगोविषाणयोरिव समानकालीनयोः कार्यकारणभावो नास्ति । अत्र तु द्रव्यं किल गुणं प्रति समवायिकारणं वर्तते यथा घटरूपं प्रति घटः समवायिकारणमिति । ततश्च न तयोर्युगपदुत्पत्तिरिति । गुणसमानाधिकरणेत्यादि गुणसमानाधिकरणा गुणाधिकरणवर्तिनी सत्ताभिन्ना एतादृशी या जाति: द्रव्यत्वरूपा जातिः, तद्वत्त्वं वर्तते द्रव्यमात्रे इति लक्षणसमन्वयः । अत्र 'जातिमत्त्वम्' एतावदेव उच्यते चेत् सत्ता जातिमादाय गुणकर्मणोः अतिव्याप्तिः । कथम् ? यथा सत्ताजातिमत्त्वं द्रव्ये तथा सत्ताजातिमत्त्वं गुणे कर्मणि च वर्तते इति. तदर्थं सत्ताभिन्नेति पदम् सत्ताया व्यावृत्तिः तथापि गुणत्वं कर्मत्वं चादाय उक्तस्थलेऽतिव्याप्तेस्तादवस्थ्यमेव, कथम् ? यथा सत्ताभिन्ना या द्रव्यत्वरूपा जातिः तद्वत्त्वं वर्तते द्रव्ये, तथा सत्ताभिन्ना गुणत्वकर्मत्वरूपा जातिः तद्वत्त्वं वर्तते गुणे कर्मणि च इति तत्रातिव्याप्तिः, तदर्थ गुणसमानाधिकरणेति । नन्वेवमपीत्यादि । ननु रूपं गुणः, तत्र एकत्वं सङ्ख्या वर्तते, तथा रसावधिकं पृथक्त्वमपि तत्र विद्यते, सङ्ख्यापृथकत्वे च गुणा स्तः, ततो रूपत्वजाति: गणसमानाधिकरणा जाता, तेन रूपादौ अतिव्याप्तिः, अत्रोच्यते-ऐकाधिकरण्यादेव तादृशस्य व्यवहारस्योपपत्तिः, न तु गुणे गुणसद्भावः । एकार्थः एकाधिकरणं घटादि, तत्र रूपं वर्तते सङ्ख्यापृथक्त्वेऽपि तत्रैव तिष्ठतः । एवं च एकार्थे द्वयोस्त्रयाणां वा समवायोऽस्ति, न तु रूपे गुणयोः समवायः । घटादिगतमेव एकत्वादिकं रूपेऽपि लक्ष्यते इत्यर्थः, अतो नोक्तदोषः ॥
__ [गुणविभाग:] रूप-रस-गन्ध-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्वसंयोगविभाग-परत्वा-ऽपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्दबुद्धि-सुख-दुःखेच्छाद्वेष-प्रयत्न-धर्मा-ऽधर्म-संस्काराश्चतुर्विंशतिर्गुणाः ।
गुणं विभजते-रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान्
१० • तर्कसंग्रहः गुणः, गुणत्वजातिमान् वा । लघुत्वमृदुत्वकठिनत्वादीनां विद्यमानत्वात् कथं चतुर्विशतिर्गुणा इति चेत् ? न, लघुत्वस्य गुरुत्वाभावरूपत्वात्, मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषरूपत्वात् ।
[कर्मविभागः] उत्क्षेपणा-ऽपक्षेपणा-ऽऽकुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि ।
कर्म विभजते-उत्क्षेपणेति । संयोगिभिन्नत्वे सति संयोगासमवायिकारणं कर्म, कर्मत्वजातिमद् वा । ननु भ्रमणादेरपि अतिरिक्तस्य कर्मणः सत्त्वाद् पञ्चेत्यनुपपन्नमिति चेत् ? न, भ्रमणादीनामपि गमने अन्तर्भावात् न पञ्चत्वविरोधः ॥
___ कर्मलक्षणमाह-संयोगेत्यादि । अङ्गलीद्वयसंयोगस्य समवायिकारणम् अङ्गलीद्वयम्, असमवायिकारणं तु तन्निष्ठं कर्म, कार्येण अङ्गलीद्वयसंयोगेन एकस्मिन्नर्थे अङ्गुलीद्वये समवेतत्वात् ॥
[सामान्यविभागः] परमपरं चेति द्विविधं सामान्यम् ।
सामान्यं विभजते-परमिति । परम्-अधिकदेशवृत्ति, अपरंन्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ॥
[विशेषविभाग:] नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।
विशेषं विभजते-नित्येति । पृथिव्यादिचतुष्टयस्य परमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि ॥
[समवायविभाग:] समवायस्त्वेक एव ।