________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः •७ सति, विशेषभिन्नत्वे सति, समवायभिन्नत्वे सति अभावभिन्नो यः पदार्थः तद्भिन्नत्वं सप्तसु वर्तते, परम् अभावभिन्नः पदार्थः प्रसिद्धो नास्ति तत् कथं सप्तान्यतमत्वम् इति चेत् ? न, द्रव्यादिनां यद्भेदसप्तकं तस्य यो अभाव: तद्वत्त्वम् इति सप्तान्यतमत्वस्यार्थः अस्माभिरुच्यते न तु प्राग्दर्शितोऽर्थः । तथाहि द्रव्ये गुणादिषड्भेदो वर्तते परं द्रव्यभेदो नायाति । एवं गुणादावपि सप्तसु विलोक्यते चेद् द्रव्यादिसप्तकम् आयाति । यथा एकस्मिन् षड्भेदः, अन्यस्मिन् तद्भेद इत्यर्थः ।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।
द्रव्यं विभजते-तत्रेति । तत्र=द्रव्यादिमध्ये द्रव्याणि नवैव इत्यन्वयः । कानि तानीत्यत आह पृथिवीत्यादि । ननु तमसो दशमद्रव्यस्य विद्यमानत्वात् कथं नवैव द्रव्याणि ? तथाहि
तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धधर्मवैधान्नवभ्यो भेत्तुमर्हति ॥१॥ 'नीलं तमश्चलति' इत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च द्रव्यत्वं तावत् सिद्धम् । तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावो रूपवत्त्वात् । अत एव न वायौ, स्पर्शाभावात् सदा गतिमत्त्वाभावाच्च । नापि तेजसि, भास्वररूपाभावाद् उष्णस्पर्शाभावाच्च । नापि जले, शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि पृथिव्यां, गन्धवत्त्वाभावात् स्पर्शरहितत्वाच्च । तस्मात् तमो दशमद्रव्यं, इति चेत् ? न, तमसस्तेजोऽभावरूपत्वात् । तथाहि-तमो हि न रूपि द्रव्यम्, आलोकाऽसहकृतचक्षुर्ग्राह्यत्वाद् आलोकाभाववत्, रूपिद्रव्यचाक्षुषप्रमायाम् आलोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजःसामान्याभावस्तमः । तत्र 'नीलं तमश्चलति' इति प्रत्ययो भ्रमः । अतो नव द्रव्याणि इति सिद्धम् ।
८. तर्कसंग्रहः द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वम् 'अव्याप्तिः,' यथा गो:-कपिलत्वम् । अलक्ष्यवृत्तित्वम् 'अतिव्याप्तिः,' यथा गोः-शृङ्गित्वम् । लक्ष्यमात्राऽवर्तनम् 'असम्भवः,' यथा गो:-एकशफत्वम् । एतद्दूषणत्रयरहितो धर्मो लक्षणम्, यथा गो:-सास्नादिमत्त्वम् । स एव 'असाधारणधर्म' इत्युच्यते । लक्ष्यतावच्छेदकत्वम् अनियतत्वम् असाधारणत्वम् । व्यावर्तकस्यैव लक्षणत्वे व्यावृतौ अभिधेयत्वादौ च अतिव्याप्तिवारणाय-तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तु न देयं, व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यसामान्यलक्षणम् आद्यक्षणे, उत्पन्नविशिष्टद्रव्ये चाव्याप्तेः, इति चेत् ? न, गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमपि 'एकं रूपं रसात् पृथग्' इति व्यवहाराद् रूपादौ अतिव्याप्तिः, इति चेत् ? न, एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ।
तत्र तमस इति । तमः पक्षः, आकाशादिपञ्चकानन्तर्भूतत्वं साध्यते, रूपवत्त्वं हेतुः, पृथिव्यादिदृष्टान्तः । एवमग्रेऽपि । प्रौढप्रकाशेत्यादि । परमाणुरूपस्य तेजसः सर्वत्र विद्यमानत्वात् सत्यपि तमसि तमोनास्तित्वापत्तिः, तद्वारणाय प्रौढपदम् । सुवर्णादिमत्प्रदेशे सत्यपि तमसि तमसो नास्तित्वापत्तिवारणाय प्रकाशपदम् । प्रौढप्रकाशकतेजसः सूर्यस्वरूपस्य ग्रहणात् प्रदीपादिमत्प्रदेशे तमसोऽस्तित्वापत्तिः, तद्वारणाय सामान्यपदम् ।
___ द्रव्यलक्षणमाह द्रव्यत्वेत्यादि । ननु द्वितीयं लक्षणं किमर्थम् ? अत्रोच्यते, लक्षणस्य लक्षणान्तराऽदूषकत्वान्न दोषः । यद्वाऽऽद्ये पक्षतावच्छेदकहेत्वोरैक्यात् सिद्धसाधनतादोषः, तदर्थं द्वितीयं लक्षणं बोध्यम् । तथाहि'द्रव्यम् इतरेभ्यो भिद्यते द्रव्यत्वात्' । अत्र द्रव्यं पक्षः, पक्षता द्रव्ये, पक्षतावच्छेदकं द्रव्यत्वम्, हेतुरपि द्रव्यत्वम् । एवं च द्वयोरैक्ये सति सिद्धसाधनता दोषः ।
असाधारणधर्म इत्यादि । लक्षणस्य लक्षणं तु अग्रे विवरिष्यामः ।