________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ५ विश्वेशमिति । विश्वस्य ईशो विश्वेशः । अत्र विश्वस्येति लुप्तषष्ठ्या निरूपितत्वम् अर्थः । ईशधातोः ऐश्वर्यम् अर्थः । पचाद्यचः आश्रयरूपोऽर्थः । जगन्नियन्तृत्वरूपम् ऐश्वर्यमत्र बोध्यम् । विश्वनिरूपितैश्वर्याश्रय इत्यर्थः । नन अणुरूपे मनसि सकलजगदाधारतया महीयस ईश्वरस्य अवस्थानं कथं सङ्गच्छते अल्पीयसि आधारेऽतिमहत आधेयस्यावस्थानासम्भवाद् इति चेत् ? मैवम्, निधायेत्यस्य 'सर्वदा ध्यात्वा' इत्यर्थाश्रयणाद् न दोषः । विधायेत्यादि । हितोहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषां वन्दनं नमस्कारं स्वावधिकोत्कर्षवत्ताज्ञानं विधाय कृत्वा इत्यर्थः हृदधिकरणक-विश्वेशकर्मक-निधानोत्तरकालीनगुरुसम्बन्धिवन्दनकर्मकविधानोत्तरकालीनबालसम्बन्धिसुखबोधफलक-मत्कृतिजन्यफलाश्रयः तर्कसङ्ग्रह: इति शाब्दबोधः ॥ इति प्रथमपदार्थसङ्कोचः ॥
[इति मङ्गलवादः] ।
[पदार्थविभागः] द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः ।
___पदार्थान् विभजते-द्रव्येति । 'पदस्यार्थः पदार्थः' इति व्युत्पत्त्या अभिधेयत्वं पदार्थसामान्यलक्षणम् इति लभ्यते । नन्वत्र विभागादेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थमिति चेत् ? न, अधिकसङ्ख्याव्यवच्छेदार्थत्वात् ।
ननु अतिरिक्तः पदार्थः प्रमितो न वा ? नाद्यः, प्रमितस्य निषेधायोगात् । नान्त्यः, प्रतियोगिप्रमिति विना निषेधानुपपत्तेः इति चेत् ? न, पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यम् इति व्यवच्छेदार्थत्वात् । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वम्, एवं च सप्तभिन्नस्याऽप्रसिद्धत्वात् सप्तान्यतमत्वं कथम्, इति चेत् ? न, द्रव्यादिसप्तान्यतमत्वं द्रव्यादिभेदसप्तकाभाववत्त्वम् इति तदर्थत्वात् । एवमग्रेऽपि द्रष्टव्यम् ।
६ • तर्कसंग्रहः पदार्थान् विभजते इति । तेषां विभागं करोतीत्यर्थः । व्याप्यधर्मपुरस्कारेण कथनं विभागः । अत्र पदार्थत्वं द्रव्यत्वादिकम् , अधिकदेशवर्तित्वात् । द्रव्यत्वादीनि व्याप्यानि, न्यूनदेशवर्तित्वात् । तेन व्याप्यधर्मो द्रव्यत्वादिकं बोध्यम् ।
सप्त पदार्था इति । पदस्यार्थः पदार्थः इति व्युत्पत्त्या अभिधेयत्वं पदार्थसामान्यलक्षणम् । अत्र 'ऋ' गतौ इत्यस्य धातोः अभिधारूपोऽर्थः । ततः परो य औणादिकः 'थन्' प्रत्ययस्तस्य विषयरूपोऽर्थः । अभिधा =शब्दशक्तिः । ततोऽभिधाविषयत्वम् अभिधेयत्वम् इत्यर्थः । क्वचित् 'सप्तैव' इति पाठः, तत्र 'एव' शब्दस्य कोऽर्थः इति चेत् ? उच्यते, 'एव'शब्दः त्रिधा ? क्रियासङ्गतः १, विशेष्यसङ्गतः २, विशेषणसङ्गतश्च ३ । तत्र आद्यस्य अत्यन्तायोगव्यवच्छेदरूपोऽर्थः । द्वितीयस्य अन्ययोगव्यवच्छेदरूपोऽर्थः । तृतीयस्य अयोगव्यवच्छेदरूपोऽर्थः यतः
नीलमब्जं भवत्येव पार्थ एव धनुर्धरः ।
शङ्खः पाण्डुर एव स्याद् ‘एव'शब्दगतिस्त्रिधा ॥१॥ इति । अत्र च विशेषणसङ्गतः 'एव'शब्दो बोध्यः ।
नन्वतिरिक्त इति । ननु सप्तपदार्थापेक्षयाऽधिक: पदार्थः प्रमाविषयीकृतो न वा ? नाद्यः, प्रमितस्य निषेधो वक्तुं न शक्यते, नान्त्यः, प्रतियोगिज्ञानं विना नास्तीति वक्तुं न शक्यते । यतः प्रतियोगिप्रकारकाऽभावबुद्धित्वावच्छिन्नं प्रति प्रतियोगिज्ञानत्वेन कारणता । यथा 'भूतले घटो नास्ति,' अत्र घटाभावस्य प्रतियोगी घटः, तद्ज्ञानं विना घटो नास्तीति वक्तुं न शक्यते, तथाऽत्रापि प्रतियोगी अष्टमः पदार्थो नास्तीति वक्तुं न शक्यते, इति चेद् ? उच्यते । 'पदार्थत्वं द्रव्यादीनां सप्तानाम् अन्यतमत्वस्य व्याप्यम्' इति व्यवच्छेदपदार्थः । अधिकेत्यादिरर्थस्तु अर्थाल्लभ्यते । ननु सप्तान्यतमत्वस्य सप्तभिन्नो योऽष्टमः पदार्थः तद्भिन्नत्वम् इत्यर्थो वाच्यः । एवं च सति सप्तभिन्नो यः पदार्थः स तु प्रसिद्धो नास्ति । यथा घटभिन्नत्वे सति पटभिन्नत्वे सति कड्यभिन्नं सर्व जगत, तद्भिन्नं त्रितयमिति । अत्र घयदित्रितयभिन्नं सर्वं जगत् प्रसिद्धं वर्तते, तथा द्रव्यभिन्नत्वे सति, गुणभिन्नत्वे सति, कर्मभिन्नत्वे सति, सामान्यभिन्नत्वे