________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ३
अनेन पद्येन एतत्त्रयं दर्शितमस्ति । तद्यथा-मङ्गलं १, तस्य शास्त्रे निबन्धनं २, प्रतिज्ञा च ३ । तत्र तावन्मङ्गलं निर्विघ्नपरिसमाप्त्यर्थं, निबन्धनं तु शिष्यशिक्षार्थ, यतः शिष्यैरपि एवं ज्ञायेत शास्त्रादौ मङ्गलं कर्तव्यमिति । अन्यथा तेषां तद् ज्ञानं न स्याद् इति भावः । प्रतिज्ञा च शिष्यावधानार्थम् अवधानं =शुश्रूषा विषयान्तरान्मनोविच्छित्तिश्च ।
एतदेवाह-चिकीर्षितस्येत्यादि । सुगमम् ।
शिष्टेत्यादि । शिष्टाभिचारेण अनुमिता या श्रुतिस्तया बोधिता ज्ञापिता कर्तव्यता यस्य तद् इति समासः । अयमर्थः-'निर्विघ्नग्रन्थपरिसमाप्तिकामो मङ्गलमाचरेत् यद्वा विघ्नध्वंसकामो मङ्गलमाचरेद्' इत्येषा श्रुतिः शिष्टाचारेणानुमीयते यतः शिष्टाचारः श्रुतिमूलको भवति । किं नाम शिष्टत्वम् ? वेदत्वोपाधिना स्वारसिकवेदप्रमाण्याभ्युपगन्तृत्वं शिष्टत्वम् । ननु-गौरवाल्लाघवं न्याय्यम्, यदुक्तम्
प्रक्रिया गौरवं यत्र तं न पक्षं सहामहे ।
प्रक्रियालाघवं यत्र तं पक्षं रोचयामहे ॥१॥ इति । अत एतावल्लक्षणं किमर्थम् ? तत्रोच्यते-'गन्तृत्वं शिष्टत्वम्' लक्षणं चेदुच्यते तर्हि गतिमत्यश्वादौ अतिव्याप्तिः, तद्वारणाय 'उप' इति पदमुपात्तम् । तत 'उपगन्तृत्वं शिष्टत्वम्' । अथ एवमुच्यते चेद् गवा सह वत्सो गच्छति इत्यत्र वत्सेऽतिव्याप्तिः, तद्वारणाय 'अभि' इति पदमुपात्तम् । ततः 'अभ्युपगन्तृत्वं शिष्टत्वम्' । एवमपि यत्किञ्चित्कार्याभ्युपगन्तृम्लेच्छादौ अतिव्याप्तिः, तद्वारणाय प्रामाण्येति । अथापि प्रत्यक्षप्रमाणमात्रस्वीकारकचार्वाकादौ अतिव्याप्तिः, तद्वारणाय वेदेति । ततोऽपि ताडितबौद्धादौ अतिव्याप्तिः, तद्वारणाय स्वारसिकेति । तथाऽपि शङ्कितबौद्धादौ अतिव्याप्तिः, तद्वारणाय वेदत्वोपाधिनेति पदमुपात्तम् । अतः परं न क्वापि अतिव्याप्त्यादिदोषसम्भव इति ।
ननु मङ्गलस्य समाप्तिसाधनत्वमित्यादि । नन मङ्गलस्य कारणता विघ्नध्वंसं प्रति समाप्ति प्रति वा ? अत्रोच्यते-प्राचां मते तु उभयं प्रति कारणताऽस्ति । नव्यास्तु एवमाहुः-विघ्नध्वंस एव मङ्गलस्य फलं, समाप्तिस्तु विघ्नसंसर्गाभावादिकारणकलापजन्या इत्यादि । अत्र हि समाप्ति प्रति
४. तर्कसंग्रहः यावद्विघ्नोत्सारणसमर्थमङ्गलत्वेन कारणता बोध्या तेन (कादम्बर्यादौ) मङ्गलत्वेऽपि तथाविधमङ्गलासत्त्वान्न परिसमाप्तिः । यतो 'यत्र यत्र कारणतावच्छेकावच्छिन्नं कारणं भवेत् तत्र तत्रैव कार्यतावच्छेदकावच्छिन्नं कार्य स्यान्नान्यत्र' । कारणतावच्छेदकेत्यादेस्तु अयमर्थ:-कारणं मङ्गलम्, कारणता मङ्गले, कारणतावच्छेदक मङ्गलत्वम्, तदवच्छिन्नं कारणं मङ्गलमेव । एवं कार्य समाप्तिः, कार्यता समाप्तौ, कार्यतावच्छेकं समाप्तित्वम्, तदवच्छिन्नं कार्य समाप्तिरेवेति ।
मङ्गलं वेदबोधितेत्यादि । अत्रानुमाने मङ्गलं पक्षः, वेदबोधित कर्तव्यताकत्वं साध्यते, अलौकिकाविगीतशिष्टाचारविषयत्वं हेतुः, दर्शादियागो दृष्टान्त इति । वेदेन बोधिता कर्तव्यता यस्य तद् वेदबोधितकर्तव्यताकम् । अलौकिकोऽविगीतश्च यः शिष्टाचार: तद्विषयत्वं, तस्मात् । अलौकिकत्वं नाम लौकिकभिन्नत्वम् । लौकिकत्वं च वेदातिरिक्तप्रमाणप्रमापितबलवदनिष्टाननुबन्धीष्टसाधनताकत्वम् । अविगीतत्वं वेदानिषिद्धत्वम, तदभिन्नत्वं विगीतत्वम्। शिष्टपदमित्यादि । अत्राहः केचिद 'जलताडनादौ निष्फले कर्मणि व्यभिचारवारणाय शिष्टपदमुपात्त'मिति । तन्न, अविगीतपदेनैव तत्र व्यभिचारवारणात् । जलताडनं तावद् विगीतं भवति, "न कुर्यान्निष्फलं कर्म" इति वचनात् । मङ्गललक्षणं त्विदम्-विघ्नभिन्नत्वे सति विघ्नध्वंसप्रतिबन्धकाभावभिन्नत्वे सति प्रारिप्सितविघ्नध्वंसासाधारणकारणत्वं मङ्गलत्वम् । विघ्ने विघ्नध्वंसप्रतिबन्धकाभावे च अतिव्याप्तिवारणाय पदद्वयम् । वृष्टिप्रतिबन्धकविघ्नध्वंसासाधारणकारणे कारीरीयागे अतिव्याप्तिवारणाय प्रारिप्सितेति । दण्डादौ अतिव्याप्तिवारणाय विघ्नध्वंसेति । दिक्कालादौ अतिव्याप्तिवारणाय असाधारणेति । किनाम प्रतिबन्धकत्वम् ? कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् । तथाहि-दाहोत्पत्तेः कारणीभूतो यथा तृणवनिसंयोगः, तथाऽभावो मण्यभावः तत्प्रतियोगित्वं मणौ, एवमन्यत्रापि वाच्यम् ।
हृदीति । हच्छब्दस्य मनोरूपः पर्यायः, 'स्वान्तं हन्मानसं मनः' इत्यमरकोशात् । उक्तं च मुक्तावल्याम्-[का०-८१] शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः ॥१॥ इति ।