________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेत: तर्कसङ्ग्रहः
[मङ्गलम्] निधाय हदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
[दीपिका] विश्वेश्वरं साम्बमूर्ति प्रणिपत्य गिरां गुरुम् ।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकम् इष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थं निबध्नंश्चिकीर्षितं ग्रन्थादौ प्रतिजानीते-निधायेति ।
ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति, मङ्गले कृतेऽपि कादम्बर्यादौ निर्विघ्नपरिसमाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाद् अन्वयव्यतिरेकव्यभिचाराद् इति चेत् ? न, कादम्बर्यादौ विघ्नबाहुल्यात् समाप्त्यभावः, किरणावल्यादौ तु ग्रन्थाद् बहिरेव मङ्गलं कृतम्, अतो न व्यभिचारः ।
ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणम् इति चेत् ? न, शिष्टाचारनुमितश्रुतेरेव प्रमाणत्वात् । 'समाप्तिकामो मङ्गलमाचरेत्' इति
२. तर्कसंग्रहः श्रुतेः । तथाहि-मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाऽविगीतशिष्टाचारविषयत्वात्, दर्शादिवत् । भोजनादौ व्यभिचारवारणाय अलौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति । शिष्टपदं स्पष्टार्थम् । 'न कुर्यान्निष्फलं कर्म' इति जलताडनादेरपि निषिद्धत्वाद् इति ।
तय॑न्ते प्रतिपाद्यन्ते इति तर्काः द्रव्यादिसप्तपदार्थाः, तेषां सङ्ग्रहः सङ्क्षपेण स्वरूपकथनं क्रियते इत्यर्थः । कस्मै प्रयोजनाय ? इत्यत आह-सुखबोधायेति । सुखेन=अनायासेन बोध:=पदार्थज्ञानं तस्मै इत्यर्थः । ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमयमपूर्वग्रन्थः क्रियत इत्यत आह-बालानामिति । तेषामतिविस्तृतत्वाद् बालानां ततः सुखेन बोधो न भवतीत्यर्थम् इत्यर्थः । ग्रहणधारणपटुर्बालः, न तु स्तनंधयः । किं कृत्वा क्रियते इत्यर्थ (न) आह-निधायेति । विश्वेशं जगन्नियन्तारं शिवं हृदि निधाय=नितरां स्थापयित्वा, सर्वदा तद्ध्यानपरो भूत्वा इत्यर्थः । गुरूणां= विद्यागुरूणां वन्दनं नमस्कारं विधायकृत्वा इत्यर्थः ।
[फक्किका] प्रणिपत्य जिनं पाश्र्वं विश्वभावप्रकाशकम् ।
एकत्रीकृत्य लिख्यन्ते तर्कसङ्ग्रहफक्किकाः ॥ सत्येकस्मिन्नपि बाधके साधकसहस्रस्याप्यकिञ्चित्करत्वात् कार्यमात्रं प्रति प्रतिबन्धकाभावो हेतुरिति राद्धान्तः । यथा दाहोत्पादकृतवह्निसंयोगादिरूपसकलकारणसत्त्वेऽपि मणिरूपप्रतिबन्धकसत्त्वे दाहोत्पत्तिर्न जायते इति कृत्वा दाहत्वावच्छिन्नं प्रति मणित्वावच्छिन्नाभावत्वेन कारणता, तथाऽत्रापि समाप्तिजनकबुद्धिप्रतिभादिरूपकारणसत्त्वेऽपि दुरितादृष्टरूपप्रतिबन्धकसत्त्वे समाप्तिर्न भवतीति कृत्वा 'समाप्तिप्रतिबन्धकीभूतदुरितनाशार्थं मङ्गलाचरणमावश्यकम्' इति मन्वानो ग्रन्थकारो ग्रन्थादौ मङ्गलमाचरति-निधायेति ।