________________
तत्त्वचिन्तामणिगतमङ्गलवादः आरब्धकर्मजनकादृष्टकारणसंपत्तौ पुत्रेष्टिवत्तत्समाप्तिसाधनत्वं श्रुत्या बोध्यत इति चेत्-न । तत्र दृष्टकारणसंपत्तौ पुत्रानुत्पादाददृष्टद्वारा पुढेष्टेस्तज्जनकत्वमस्तु । न च कर्मनिर्वाहे दृष्टसकलहेतुसंपत्ती विलम्बः, येन मङ्गलजन्यादृष्टापेक्षा स्यात् ।
अपि च मङ्गलं विनापि प्रमत्तनास्तिकानुष्ठितसमाप्तेः न तत्तत्र कारणम् । जन्मान्तरीयपुण्यसंपत्तिस्तत्र हेतुरिति चेत्न तथापि व्यभिचारात् ।
क्वचित् पुण्यसंपत्तिः क्वचिन्मङ्गलं हेतु रिति व्रीहियववद्विकल्प एवेति चेत् तर्हि तत्संभावनया नियतं मङ्गलानुष्ठानं न स्यात्, यवप्रयोगे व्रीहेरिव । विकल्पे चोभयस्याशास्त्रार्थत्वात् ।
ननु विधिवाक्यं न फलनियतपूर्वसत्वं बोधयति, किं तु मङ्गलात् फलावश्यंभावमिति चेत्-न । इष्टसाधनत्वस्य विध्यर्थत्वात् । अथान्वयव्यतिरेकाभ्यां तद्ग्रहे व्यभिचारो दोषाय, न त्वागमेन तद्ग्रहे । तदुक्तम्-'आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाये 'ति । अत एव यागादेः स्वर्गसाधनतेति चेत्न, नियतपूर्वसत्त्वस्य ग्राह्यस्याभावादागमेनापि बोधयितुमशक्यत्वात् । यागजनितस्वर्गे कारीरीजनितवृष्टौ च जातिविशेष एवास्ति ।
अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा, तथैव प्रतिबन्धका भावस्य हेतुत्वात् । स चाभावः सतो विघ्नस्य ध्वंसोऽनागतस्यानुत्पादश्च कर्मनिर्वाहसमयस्थायी । विघ्नकारणविनाशद्वारा प्रागभावस्य साध्यत्वम् । यस्मिन् सत्यग्रिमक्षणे यस्य सत्वं यद्व्यतिरेके चासत्त्वम्, तदेव तस्य तज्जन्यत्वं न त्वसतः सत्त्वं गौरवात् । अस्ति च विघ्नकारणनाशे सति विघ्नप्रागभावस्य तथात्वम् । तावति समये दुरितानुत्पादश्च न साक्षान्मङ्गलजन्य इत्यदृष्टद्वारा तथा ।
एवं निर्विघ्नं समाप्यतामिति कामनया तदाचारोऽपि संगच्छते । अत एव यत्र विघ्नाभाव स्वतःसिद्धः तत्र मङ्गलस्याकिञ्चित्करत्वेन वेदाप्रामाण्यमिति निरस्तम् । अनागतविघ्नाभावस्य तत्रापि साध्यत्वत् । 'सर्वे विघ्नाः शमं यान्ति' इति यत्र विनायकस्तवपाठादौ श्रुतमस्ति तत्र तत एव प्रमत्तानुष्ठितसमाप्तेरनादौ संसारेऽवश्यं तदाचारात् । तथा च तेन समं मङ्गलस्य विकल्प एव । यत्र च साङ्गे मङ्गले सत्यपि न फलं तत्र विघ्नभूयस्त्वादिति, तन्न, विघ्नानुत्पादस्य व्यापारत्वे मानाभावात् । संसर्गाभावत्वेन हेतुत्वात् तथैव व्यापारत्वम्, तच्च प्राग भावेऽप्यस्तीति चेत्, न । अत्यन्ताभावस्यापि व्यापारत्वापत्तेः । स्वतस्सिद्धस्य न हेतुत्वं यदि, तदा प्रागभावेऽपि तुल्यम् ।
किं च यत्र मङ्गलं न तत्र नियमेन विघ्नकारणमस्ति, येन तन्नाशद्वारा प्रागभावस्य साध्यत्वम् । एवमपि यत्र विघ्नानुत्पादोऽपि स्वतस्सिद्धस्तत्र मङ्गलमकिञ्चित्करमेव ।
विघ्नध्वंसानुत्पादयोरारब्धनिर्वाहकालावस्थायिनोर्मङ्गलादेवोत्पत्तेर्न तदर्थमदृष्टद्वारता । मङ्गलस्य विकल्पेनान्वये शिष्टैर्नियमतो मङ्गलानुष्ठानं न स्यादित्युक्तम् ।
किं च प्रधानत्वे साङ्गमङ्गलमात्रं न समाप्तिहेतुः, तस्मिन् सत्यपि तदभावात् । प्रचितं तथेति चेत्, न, अप्रचितादपि फलसत्त्वात् । नोभयम्, अननुगमात् ।
गुरुकारम्भे प्रचितम् अल्पकारम्भेऽल्पमिति चेत्, न, क्वचित्तादृशादपि फलासत्त्वात् वैपरीत्येऽपि फलसत्त्वाच्च ।