________________
मङ्गलवादसंग्रह एतेन बहुविघ्नशङ्कया बहुतरम्, अल्पविघ्नशङ्कया अल्पतरं च हेतुः, तादृशाचारेण तादृशश्रुत्युन्नयनादिति निरस्तम् । तादृशादपि प्रारिप्सितासमाप्तेः, वैपरीत्येऽपि समाप्तेश्च । बहुत्वस्य त्रिचतुरादिभावेन अल्पत्वस्य चैकद्वादिरूपतया अननुगमेन तादृशशिष्टाचारेण तादृशश्रुत्या बोधयितुमशक्यत्वाच्च । तस्मात् मङ्गलं नाङ्गं न वा प्रधानमिति पूर्वपक्षसंक्षेपः ।। इति मङ्गलवादपूर्वपक्षः ॥
सिद्धान्तस्तु–आरब्धकर्मसमाप्तौ मङ्गलं नाङ्गम्, न वा प्रधानम्, अहेतुत्वात् । किं तु प्रायश्चित्तवत् प्रधानं विघ्नध्वंसः फलम् । आरब्धकर्मनिर्वाहे विघ्नो मा भूदिति कामनया तदनुष्ठानात् । विघ्नस्य संशये निश्चये वा शिष्टानां तदाचरणाद्विघ्नाभावस्याकाङ्क्षितत्वाच्च ।
यदि च निर्विघ्नं समाप्यतामिति कामनया तदाचरणं, तदापि नागृहीतविशेषणन्यायेन अहं स्वर्गी स्यामित्यत्र स्वर्ग इव विघ्नाभाव एव फलं न समाप्तिः, उभयतो व्यभिचारात् । समाप्तिस्तु विघ्नरू पप्रतिबन्धकाभावे सति लोकावगतस्वकारणादेव ।
प्रचिताप्रचितदेवतास्तुत्यादिसाङ्गमङ्गलात् प्रत्येकं विघ्नध्वंसो भवत्येव । अतो वैदिके फलनिश्चयान्मङ्गले प्रवृत्तिः । न च वेदाप्रामाण्यम् ।
समाप्त्यभावश्च क्वचित् प्राचीनविघ्नभूयस्त्वात्, क्वचिन्मङ्गलानन्तरोत्पन्नविघ्नात्, क्वचिल्लोकावगतकारणाभावात् । प्रारिप्सितविघ्नध्वंसश्च न मङ्गलं विना । न च प्रायश्चित्तेन शङ्कितविघ्नविनाशः । विघ्नसंशये तदनुपदेशात् । न च कामनोपाधिकर्तव्यत्वे नियतमनुष्ठानं न स्यादिति वाच्यम् । आरब्धकर्मकारणप्रतिबन्धकाभावोपायत्वेनावश्यं तदनुष्ठानात् । तेन विना प्रतिबन्धकाभावाभावात् कर्मानुत्पत्तेः । न च प्रधानत्वेनान्यदापि तत्करणम् । नियतसमयशिष्टाचारानुमितश्रुत्या कारम्भसमये तत्कर्तव्यत्वबोधनात् दर्शारम्भसमये आरम्भणीयावत् । विघ्नसंसर्गाभावश्च समाप्तिहेतुः ।
सच क्वचित् स्वतःसिद्धः क्वचिन्मङ्गलसाध्यः । अत एव मङ्गलं विनापि जन्मान्तरानुवर्तमानविघ्नात्यन्ताभावात् प्रमत्तनास्तिकानुष्ठितसमाप्तिः । न चानध्यवसायः । शङ्कितविघ्नवारणार्थ प्रवृत्तिरतो यावद्विघ्नशङ्कं तदाचरणात् । अत एव तच्छङ्कया मध्येऽपि तदाचरन्ति । गुर्वारम्भेऽपि बहुविघ्नशङ्कया बहुमङ्गलाचरणम् । यथा च विघ्नसंशयेऽपि प्रवृत्तिस्तथोक्तमेव ।
स्यादेतत् मङ्गलमाचरेदिति विधौ किं मङ्गलत्वम् । न तावदेवतास्तुत्यादित्वम्, अननुगमात् । नापि प्रारिप्सितप्रतिबन्धकविघ्नोपशमहेतुक्रियात्वम्, विघ्नोत्सारणासाधारणकारणत्वं वा । क्रियाविशेषस्य तदसाधारणकारणस्य वा स्तुत्यादेर्वेदाद्विशिष्टापरिचये प्रवृत्तिविषयालाभात् । नापि निर्विघ्नं समाप्यतामिति कामनया शिष्टाचारविषयत्वम्, वेदस्याचारानुपजीवकत्वात्, वेदाद्याचारानुपपत्तेश्च, अन्योन्याश्रयात् । नापि तत्कामनया वेदविहितत्वम्, प्रारिप्सितकर्मनिर्वाहकत्वे सति कर्मारम्भकाले विहितवैदिककर्मत्वं वा, तादृशवेदान्तराभावात् । नापि स्मृत्यादौ मङ्गलत्वेनोत्कीर्तितत्वम् । वेदस्य स्मृत्यनुपजीवकत्वात् । स्मृतिकतुरेव वेदादाद्याचारानुपपत्तेश्च ।
उच्यते मङ्गलमाचरेदिति न विधिः । किं तु निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदित्यादि प्रत्येकमेव विधिः । तथैव शिष्टाचारात् । तदुपजीव्य निर्विघ्नमारब्धं परिसमाप्यतामिति कामनया तद्विघ्नोपशमहेतुत्वेन वा वेदविहितत्वं मङ्गलत्वमित्यधिगम्य देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानामिति ।