________________
मङ्गलवादसंग्रह
न, अपूर्वजनकाङ्गानां तथात्वात्, आचारानुमितश्रुत्या प्रधानविधि विनापि तदङ्गत्वविधानाच्च । अपि च प्रधानक र्तव्यताबोधक बोध्य कर्तव्यताकत्वं प्रयोजकम्, तच्चे हाप्यस्ति, प्रतिबन्धकाभावस्य सकलकार्यहेतुत्वेन लौकिकप्रमाणस्यापि तत्सापेक्षत्वात् ।
४४
ननु यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादिति चेत्, न असाधारणेऽपूर्वजनके चाङ्गे तदन्वयात् । अत एव बद्धशिखत्वादौ न प्रधानदेशकालान्वयः । न च दुरिताभावे स्वतः सिद्धे साङ्गमङ्गलानुष्ठानं निष्फलमिति तद्वेदाप्रामाण्यम् । लोकावगतकारणे हि दुरिते सति वेदेन तस्य तद्ध्वंसजनकत्वं बोध्यते, न तु तदुल्लङ्घ्यम् । अत एव तत्त्वज्ञानवतो भोगार्थं निषिध्यानुष्ठानं दोषाभावान्नाधर्मजनकमिति न तद्वेदाप्रामाण्यम् ।
प्रमाणान्तरात् स्वतःसिद्धदुरिताभावावगतौ मङ्गलाकरणे नित्यवदनुष्ठानं शिष्टानां भज्येतेति चेन्न । विघ्नज्ञानवतो नित्यवदनुष्ठानादिति सम्प्रदायः ।
मैवम् । मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः । न च तेन विनापि सिध्यतस्तदङ्गम् । न च जन्मान्तरीयं तत्, जन्मान्तरीयग्रन्थादिकमुद्दिश्य शिष्टैस्तदकरणात् ।
ननु यथा पुत्रेष्टौ कर्मसागुण्ये ऐहिकफलाभावे आमुष्मिकं फलं तथा साङ्गेऽपि मङ्गले यत्र न फलं तवामुष्मिकफलमिति चेत्, न तत्र पुत्रमात्रस्य कामना श्रवणात् इह तु प्रारिप्सितसमाप्तिकामनया मङ्गलाचार इति तथैव वेदानुमानात् कारीरीवदासन्नसमयारब्धसमाप्तिः फलम् ।
ननु आसन्नयसमयस्तत्संबन्धो वा न मङ्गलजन्य इति समाप्तिमात्रं जन्यम् तच्चैहिकामुष्मिक साधारणमिति चेत् — न आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकत्वात् । अन्यथा कारीर्यपि नासन्नसमयफला स्यात् । तस्मात् व्यभिचारान्न तदङ्गमिति ।
अन्ये तु मङ्गलं प्रधानम्, अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम्, तत्कामोऽधिकारी । क्वचित्तु फलाभावः कर्मादिवैकल्यात् कारीरीवत् । न चान्यदापि करणम् । नियतकालीनतादृशाचारेण फलवत्कर्मारिप्समानस्तत्समाप्तिकामो मङ्गलमाचरेदिति श्रुत्या आरम्भसमयकर्तव्यताबोधनात् । यथा 'आग्नावैष्णवमेकादशकपालं चरुं निर्वपेद्दर्शपूर्णमासावारिप्समानः' इति श्रुत्या आरम्भणीयेष्टेः प्रधानायाः दर्शारम्भसमयकर्तव्यत्वम् ।
कामनोपाधिकार्यत्वेऽप्यारम्भसमये नित्यमनुष्ठानम् । आरब्धकर्मसमाप्त्यर्थिनोपायत्वेनावश्यं तदनुष्ठानात् । न च काम्यत्वे परिसमाप्तिकामनां विना फलवत्कर्मारम्भेऽपि तदनुष्ठानं न स्यादिति वाच्यम् समाप्तं कर्म फलायालमिति फलार्थिनः समाप्तौ कामनावश्यंभावादिति ।
तन्न । कारीरीजन्यातिशयवत् विहितप्रधानजन्यातिशयत्वात् मङ्गलजन्यापूर्वस्यापि फलासंपादकाशेषकारणसंपादकतया आरब्धकर्मसमाप्त्यवश्यंभावापत्तेः फलावश्यंभावनिश्चयं विना वैदिककर्माननुष्ठानात् । न चैवम्, भूयसि साङ्गेऽपि मङ्गले क्वचिदारब्धसमाप्त्यभावात् । न च तत्रामुष्मिकं फलम्, ऐहिकमात्रफलत्वात् । वैदिककर्मणः फलावश्यंभावेनागन्तुकदुरितेनाप्यप्रतिबन्धात् ।
किं च यथा कार्यादिकमग्रिमपुरुषव्यापारं विनैव फलहेतु:, तथा मङ्गलमपि तेन विनैव हेतुः स्यात् । न चैवम् लोकावगतकारणत्वात्तदपेक्षेति चेत्, तर्हि स एव हेतुरस्तु, किमनेन ।