________________
तत्त्वचिन्तामणिगतमङ्गलवादः
एव द्वारम्, कल्प्यदुरितध्वंसतः अपूर्वस्य लघुत्वात् ।
वस्तुतस्तु प्रायशो विघ्नसंशये तन्निश्चये वा नियमेन शिष्टानां मङ्गलाचरणे विघ्नाभाव एव द्वारत्वेनाभिमतः ।
निर्विघ्नं समाप्यतामिति कामनया तत्करणपक्षे श्रुतित एव द्वारत्व[ तद्द्वारत्व]निर्णयः । किं चापूर्वे द्वारत्वे लौकिकाङ्गत्वविरोधः, क्लृप्तकारणादेव तदुत्पत्तेरिन्द्रबाहुबन्धनवत् ।
ननु विघ्नसंदेहे कथं तन्नाशार्थं प्रवृत्तिः, दुरितध्वंसार्थिप्रवृत्तौ तन्निश्चयस्य हेतुत्वात् प्रायश्चित्तवदिति चेत्-न । विघ्नसंशये निश्चये वा नियेमन शिष्टानां मङ्गलाचारात् विघ्नज्ञानं प्रवर्तकम् । तादृशाचारानुमितविधिनापि विघ्नज्ञानवानारब्धसमाप्तिकामोऽधिकारी बोध्यते । प्रायश्चित्ते तु तन्निश्चयवान्, तथैव विधिबोधनात् । अत एवाधिकारिविशेषणं विघ्न इति तत्संदेहे कथं प्रवृत्तिः, वैदिकेऽधिकारनिश्चयादेव प्रवृत्तेरित्यपास्तम् । यतः प्रधानाधिकारिण एवाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गात् । न च प्रधाने प्रारिप्सिते दुरितमधिकारिविशेषणम्, विरोधात् । किं तु समाप्तिकामना, सा च निश्चितैव ।
यत्तु अन्यत्र निश्चिताधिकारकर्तृत्वेऽपि मङ्गलं संदिग्धाधिकारकर्तृकमेव, विघ्नसंदेहवतां शिष्टानामाचारानुमितवेदेन तथैव बोधनादिति तन्न, विघ्नवत्त्वेनाधिकाराभावात्, क्वचित्तन्निश्चयेऽपि प्रवृत्तेश्च । अपि च शङ्कितानिष्टवारणार्थमपि प्रवर्तन्ते परीक्षकाः, यथा सर्पादिदंशजन्यविषसंशये तन्नाशाय भेषजपानादौ ।
किं च फलस्य संशयेऽप्युपायत्वनिश्चयाद्यथा कृष्यादौ प्रवृत्तिस्तथा मङ्गलेऽपि । यदि च वृष्ट्यादौ सति कृष्यादितोऽवश्यं फलमिति तर्कात्तत्र प्रवृत्तिस्तदा सति विघ्ने मङ्गलादवश्यं फलमिति तर्कादत्रापि प्रवृत्तिः ।
ननु स्फ्यस्य भक्ताश्लेषनिमित्तेज्यायामिष्टित्वेन दर्शधर्मत्वे सत्यतिदेशागतपूर्वदिनकर्तव्यदेवतावाहनस्याङ्गस्य स्फ्याश्लेषद्वारसंशयेऽननुष्ठानमुक्तम्, यथा कृष्णले द्वारबाधे । अतो विघ्नसंशयात्तद्ध्वंसद्वारसंशये कथं मङ्गलानुष्ठानमिति चेत्, न, नैमित्तिके हि निमित्तवानधिकारी, यथा 'भिन्ने जुहोति' इत्यत्र पात्रभेदवान् । तथेहाश्लेषवानधिकारीति पूर्वदिने आश्लेषनिश्चयाभावात् युक्तमननुष्ठानम् ।
___ अपि चेज्याकर्तव्यतानिश्चये तदनुष्ठानम् । न चाश्लेषसंशये तन्निश्चयः पूर्वदिने । अतः प्रधानेऽधिकाराभावान्नाङ्गेऽधिकार इति नावाहनं पूर्वदिने । यदि च 'यदि न स्यात्' इति न्यायेन कुर्यात् तदा अनधिकृतकर्तृकत्वेन निष्फलं स्यात् । स्फ्याश्लेषे सतीज्याकर्तव्यतानिश्चयेऽपि नावाहनम्, पूर्वदिनस्याङ्गस्याभावादिति इज्यायामावाहनबाध एव ।
मङ्गले तु विघ्नज्ञानवानधिकारीत्युक्तम् । तच्च संशयेऽप्यस्ति । प्रधाने कर्तव्यतानिश्चयोऽस्त्येवेति द्वारसंदेहेऽपि युक्तमनुष्ठानम् । भविष्यद्विवाहादावाभ्युदयिकेऽपि तज्ज्ञानवानधिकारी, तथैवाचारात् ।
ननु अङ्गानां प्रधानविधिविधेयत्वम् । न च ग्रन्थादिसमाप्तौ प्रधानविधिरस्ति । न च तत्कर्तव्यताबोधकस्य लौकिकप्रमाणस्य शास्त्रमेकदेशो युज्यते । तस्य तन्निरपेक्षत्वादिति चेत्