________________
तृतीयम्
॥ तत्त्वचिन्तामणिगतमङ्गलवादः ॥
इह खलु सकलशिष्टैकवाक्यतया अभिमतकर्मारम्भसमये तत्समाप्तिकामा मङ्गलमाचरन्ति । तत्र यद्यपि मङ्गलस्य कारणता नान्वयव्यतिरेकगम्या, मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः । न च तत्र जन्मान्तरीयतत्कल्पनम्, अन्योन्याश्रयात्, लोकावगतकारणेनान्यथासिद्धेश्च ।
नापि मङ्गलं सफलम्, अविगीतशिष्टाचारविषयत्वात् दर्शवदिति, फलसिद्धौ प्रारिप्सितसमाप्तेस्तदानीमपेक्षितत्वेन नियमेनोपस्थितत्वात् फलान्तरस्यातथाभावात् विश्वजिन्यायेन फलकल्पने गौरवात् परिशेषानुमानेन तत्कारणताग्रहः । व्यभिचारेण कारणत्वस्याभावात् उपायसहस्रेणापि ग्रहीतुमशक्यत्वात् । तथापि तथाविधशिष्टाचारानुमितश्रुतिरेव मङ्गलस्याभिमतहेतुत्वे मानम् ।
न च व्यभिचारः, निष्परिपन्थिश्रुत्या मङ्गलं समाप्तिसाधनमिति प्रमापिते तत्रापि तयैव लिङ्गेन जन्मान्तरीयतदनुमानात् । तच्चेदमारब्धकर्माङ्गम्, कर्मार्थितया शिष्टैस्तत्पूर्वं क्रियमाणत्वात्, फलान्तराभावे सति फलवत्कर्मारिप्समानेन नियमतस्तत्पूर्वं क्रियमाणत्वाच्च, दर्शे प्रयाजादिवत् ।
आचारमूलक श्रुत्यनुमानाभ्यां तदर्थितया तत्फलकर्तव्यत्वबोधनात् तत्फलकत्वबोधनाच्च ।
दर्शारम्भसमये नियमेन क्रियमाणाया अप्यारम्भणीयायाः तदर्थितया अक्रियमाणत्वात् फलान्तर श्रवणाच्च प्रधानत्वमिति न तया व्यभिचारः ।
ननु मङ्गलमलौकिकं लौकिके नाङ्गं भवति, लोकावगतकारणत एव तदुपपत्तेः । अत एव गृहरथादौ 'आरे भग्ने इन्द्रबाहुर्बद्धव्यः' 'पायसं ब्राह्मणो भोजयितव्यः' इत्यत्र तदुभयं नाङ्गम्, किं तु नैमित्तिकम् । तद्वदिदमप्यारम्भसमयनिमित्तकमस्तु, विश्वजिन्यायात् स्वर्गः फलमिति चेत्-न । तस्यापूर्वरूपोपकारजनकाङ्गविषयत्वात् । अयं तु प्रतिबन्धकाभावरूप उपकारः । तस्य च लोकावगतकारणसहकारितैव प्रतिबन्धके सति तस्मात्तदनुत्पत्तेः । अपूर्वं तु न तथा ।
विघ्नध्वंसद्वारा चेदमङ्गम्, न तु 'इडो यजति' इत्यादिविधिबोधितप्रयाजाद्यङ्गयागवददृष्टद्वारा । मङ्गलजन्यादृष्टं विनापि स्वतः सिद्धविघ्नविरहवत आरब्धनिर्वाहात् । न चैवं विघ्नध्वंसद्वारापि नेदमङ्गम्, तत्रैव व्यभिचारादिति वाच्यम् सति विघ्ने तद्ध्वंसद्वारा तस्याङ्गत्वात् । न चैवं प्रयाजादेरपि दुरितध्वंस