SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ किरणावलीगतमङ्गलवादः दयूथपतयो नाद्रियेरन्निति । ननु तथापि दुरित ध्वंसार्थिप्रवृत्तौ दुरितनिश्चयस्य हेतुतया कथं दुरितसंशयेऽपि मङ्गले प्रवृत्तिरित्याशक्य निराकरोति-न चेति । विघ्नः कर्मसमाप्त्यभावः । तद्धेतवो दुरितानि । तेषां सत्त्वनिश्चयाभावादित्यर्थः । तद्वारण इति । दुरितसंशयदशायां तन्नाशकारणे मङ्गले प्रवृत्त्यसम्भव इत्यर्थः । तत्सन्देहेऽपि-दुरितसंशयेऽपि । तदुपादानस्य-दुरितनाशकमङ्गलगोचरप्रयत्नस्य । न्याय्यत्वात् शिष्टाचारपरम्परारूपन्यायपरिप्राप्तत्वात् । अन्यथेति । अनिष्टध्वंसार्थिप्रवृत्तौ अनिष्टनिश्चयस्यापेक्षितत्व इत्यर्थः । नाद्रियेरन्निति । शत्रुनाशार्थं तेषामादरं न क्रियेरन्नित्यर्थः । इदञ्च समाधिसौकर्यादुक्तम्, वस्तुतस्तु दुरितध्वंसार्थिप्रवृत्तौ दुरितनिश्चयस्य हेतुत्वेऽपि दुरितसंशयमङ्गले समाप्त्यर्थिप्रवृत्ती बाधकाभावादिति ध्येयम् । । इति द्रव्यरहस्ये मङ्गलवादरहस्यम् ।
SR No.009508
Book TitleMangalvada Sangraha
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2007
Total Pages91
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy