________________
मङ्गलवादसंग्रह
व्यतिरेकव्यभिचारसंशयादित्यत आह-आगमेति । आगमः प्रत्यक्षातिरिक्तप्रमाणं तज्जन्यत्वादित्यर्थः । अस्यार्थस्य-मङ्गलसमाप्त्योः कार्यकारणभावग्रहस्य । व्यभिचार:= व्यतिरेक व्यभिचारसंशयः । प्रत्यक्षातिरिक्तज्ञाने ग्राह्यसंशयस्य अप्रतिबन्धकत्वादिति भावः । इदमुपलक्षणं-व्यभिचारसंशयस्यासार्वत्रिकत्वाच्चेत्यपि द्रष्टव्यम् । ननु भवतु कार्यकारणभावग्रहः, तथापि कादम्बर्यादौ मङ्गलसत्त्वेऽपि कुतो न समाप्तिरित्यत आह-तस्य चेतीत्याहुः ।
साद्गुण्येऽपि विघ्नहेतूनां बलीयस्त्वात् । न चैवं किमनेनेति वाच्यम्, प्रचितस्यास्यैव बलवत्तरविघ्नवारणेऽपि कारणत्वात् । नहि घनविमुक्तमुदकमेकस्तृणस्तम्बो वारयितुं न समर्थ इति तदर्थं नोपादीयते, सजातीयप्रचयसंवलितस्य तस्य शक्तत्वात् ।
ननु तथापि साङ्गेऽपि मङ्गले समाप्त्यभावो दृश्यते, स कथं स्यादित्यत आह— साद्गुण्येऽपीति । साङ्गत्वेऽपीत्यर्थः । विघ्नपदं समाप्त्यनुत्पादपरम् । तत्प्रयोजकानां कर्तृनिष्ठदुरदृष्टानां बलीयस्त्वाद् विजातीयत्वादित्यर्थः । तथा च साङ्गमङ्गलसत्त्वेऽपि विजातीयदुरदृष्टस्य प्रतिबन्धकतया न समाप्तिरिति भावः । न चैवमिति । एवं साङ्गमङ्गलसत्त्वेऽपि विजातीयदुरदृष्टसत्त्वात् समाप्त्यनुत्पादे। किमनेनेति । किं मङ्गलस्य समाप्तिकारणत्वेनेत्यर्थः । लाघवाद् आवश्यकविजातीयदुरदृष्टाभावमात्रस्य हेतुत्वे विघ्नाभावस्य च फलबलकल्प्यत्वेनातिप्रसङ्गविरहादिति भावः । प्रचितस्यास्यैवेति । विजातीयमङ्गलान्तरसमाहितस्य मङ्गलस्यैवेत्यर्थः । बलवत्तरेति । बलवत्तरत्वं दण्डचक्रवत् परस्परविजातीयनानामङ्गलनाश्यतावच्छेदकवैजात्याक्रान्तत्वं, तदाश्रयविघ्ननाशकारणत्वादित्यर्थः । तथा च व्यापारेण व्यापारिणो नान्यथासिद्धिरिति भावः । चक्रवत् परस्परसहकारेणादृष्टनाशक त्वसम्भवः, तथापि समाप्तिमुद्दिश्य कृतप्रदक्षिणाद्यङ्गस्य कस्यचिन्मङ्गलस्यापूर्वद्वारा विघ्नध्वंसजनकत्ववदत्राप्यदृष्टद्वारा तेषां विघ्ननाशकत्वे समाप्तिरूपलौकिकत्वासम्भवः । 'अलौकिक लौकिके नाङ्गम्' इति तत्कृतसूत्रेण अदृष्टद्वारा फलजनकस्यालौकिककर्मणः, लौकिकफलाजनकत्वनियमबोधनात् । अलौकिकत्वं वेदबोधितेष्टसाधनताकत्वम् । फलनिष्ठलौकिकत्वञ्च मानसेतरसाक्षात्कारविषयत्वम् । तेन यागादौ न व्यभिचारः । वृष्टि-पुत्रादिरूपलौकिकफलजनके कारीरीपुत्रेष्ट्यादौ व्यभिचारवारणाय जनकान्तमलौकिकर्मविशेषणमिति चेन्न, तत्र स्वफलत्वं स्वकर्तव्यताप्रयोजकेच्छोद्देश्यत्वेन वेदबोधितत्वम् । तस्य च समाप्तावेव सत्त्वात् । निर्विघ्नसमाप्तिकामो मङ्गलमाचरेद् इति शिष्टाचारानुमित श्रुत्या समाप्तावेव तथात्वबोधनात् । तत्र च विघ्नध्वंसस्यैव द्वारत्वेनादृष्टस्याद्वारत्वादिति न काप्यनुपपत्तिः ।
नन्वेवं स्वनिष्ठदुरितस्य निरुक्तबलवत्त्वसंशयेन फलोपधायकतासंशयादेकस्मिन् मङ्गले कस्यापि प्रवृत्तिर्न स्यादित्यत आह—नहीति । तदर्थम् । घनमुक्तोदकवारणार्थम् । तथा च स्वरू पयोग्यताज्ञानसत्त्वे फलोपधायकतासंशयो न प्रवृत्तिविघटक इति भावः । कृतैकमङ्गलस्य बलवत्तरविघ्नध्वंसोपधायकवृत्तिकारणतावच्छेदकधर्माक्रान्तत्वात् फलानुपधायकस्यास्य स्वरूपयोग्यत्वमिति भावः ।
न च विघ्नहेतुसद्भावनिश्चयाभावात् तद्वारणे कारणमनुपादेयम्, यतस्तत्सन्देहेऽपि तदुपादानस्य न्याय्यत्वात् । अन्यथा अनुपस्थितपरिपन्थिभिः पार्थिवैद्विर