________________
द्वितीयम्
किरणावलीगतमङ्गलवादः *
शास्त्रारम्भे सदाचारपरम्परापरिप्राप्ततया कायवाङ्ममनोभिः कृतं परापरगुरुनमस्कारं शिष्यान् शिक्षयितुमादौ निबध्नाति - प्रणम्येति । कर्तव्यापेक्षया प्रणामस्य पूर्वकालत्वात् क्त्वानिर्देशः । भक्तिश्रद्धातिशयलक्षणः प्रकर्षः प्रशब्देन द्योत्यते ।
तथाभूता हि परमेश्वरनतिर्मङ्गलमावहति । कृतमङ्गलेन चारब्धं कर्म निर्विघ्नं परिसमाप्यते प्रचीयते च । आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाय । तस्य च कर्तृकर्मसाधनवैगुण्यहेतुत्वात् ।
ननु नमस्कारमात्रादेव समीहितसिद्धिसम्भवात् किं प्रकृष्टनमस्कारेणेत्यत आह-तथाभू हीति । भक्तिश्रद्धारूपप्रकर्षविशिष्टा हीत्यर्थः । वैशिष्ट्यञ्च स्वाव्यवहितोत्तरकालावच्छेदेन स्वाधिकरणवृत्तित्वम् । मङ्गलं - मङ्गलपदवाच्यम् ।
ननु मङ्गलपदवाच्यानुष्ठानमपि निष्फलम् नमस्कारादिमात्रादेव समीहितसिद्धिसम्भवादित्यत आह—कृतमङ्गलेन चेति । कृतमङ्गलपदवाच्येन चेत्यर्थः । आरब्धं - शास्त्रम् । प्रचयश्च बहुकालं गुरुणा शिष्याय अध्यापनाविच्छेदः ।
आगमेति । अस्यार्थस्य - मङ्गलसमाप्त्योः कार्यकारणभावस्य । आगममूलत्वाद्-वेदबोधितत्वात् । व्यभिचारः - व्यतिरेकव्यभिचारः । न दोषाय स नास्तीत्यर्थः । आगमात् कार्यकारणभावेऽवधृते प्रमत्तनास्तिकग्रन्थसमाप्तिस्थलेऽपि तेनैव लिङ्गेन जन्मान्तरीयमङ्गलसिद्धेरिति भावः ।
ननु मास्तु व्यतिरेकव्यभिचार:, तथापि कादम्बर्यादौ मङ्गलसत्त्वेऽपि कुतो न समाप्तिरित्यत आह—तस्य चेति । मङ्गलसत्वे समाप्त्यभावस्य चेत्यर्थः । कर्तृकर्मेति । कर्तृकर्मणोर्यत् साधनं मङ्गलमिति यावत् । तस्य वैकल्यहेतुकत्वादित्यर्थः । यथा सत्यामपि कारीय वृष्ट्यभावः ।
केचित्तु मङ्गलसमाप्त्योः कथं कार्यकारणभावग्रहः ? प्रमत्तनास्तिकग्रन्थसमाप्तिस्थले मङ्गल
★ मथुरानाथतर्कवागीशकृतरहस्यसमेतः ।