________________
मङ्गलवादः, उपाध्याय श्रीसमयसुंदरजीगणी पक्षः कक्षीकार्यः प्रेक्षावद्भिर्भवद्भिः ।
अत्रोच्यते । ननु विघ्न ध्वंसस्य फलत्वे मन्यमानेऽन्वयव्यतिरेकव्यभिचारो भवत्येव। कथम् ? । कादम्बर्यादौ कृतेऽपि मङ्गले न विघ्नविध्वंसो बभूव । समाप्तेरदर्शनात् । नास्तिकानुष्ठितग्रन्थे तु अकृतेऽपि मङ्गले विघ्नविध्वंस: समजनिष्ट, स्पष्टं समाप्तेर्दर्शनात् । परं न समाप्तेः फलत्वे मन्यमाने अन्वयव्यतिरेकव्यभिचारः । कथम् ? । अस्माकं मते एवं वर्तते यावन्मङ्गलं तावती समाप्तिः । कादम्बर्यादौ मङ्गलं कृतमल्पीयोऽतः समाप्तिरप्यल्पीयसी जाता, तस्मान्नान्वयव्यभिचारः । तथा नास्तिकानष्ठितग्रन्थे तु ग्रन्थप्रारम्भे यद्यपि मङ्गलं क्रियमाणं न दृश्यते, तथापि जन्मान्तरीयमनुमीयते । तथाहिनास्तिकानुष्ठितग्रन्थसमाप्तिर्मङ्गलपूर्विका समाप्तित्वाद्, रघुवंशादिसमाप्तिवदित्यादि पूर्ववत् । अतो न व्यतिरेकव्यभिचारः ।
अन्यच्च यस्यैव काम्यत्वं तस्यैव फलत्वमिति न्यायात् । यथा कृषीष्टबलेन कर्षणं क्रियते तदा तस्यैवम्भूतेच्छा वर्तते 'मम धान्यनिष्पत्तिर्भवति' न तु पलालादि, तत्तु स्वयं प्रसङ्गादेव जायते । तथात्रापि ग्रन्थकर्तुः समाप्तीच्छास्ति, न तु विघ्नविध्वंसेच्छा । अतोऽत्र समाप्तिः फलम् ।
अत्राह नोदक:-ननु मङ्गलस्य फलं समाप्तिः प्रदर्शिता । तच्चारु चक्रे वक्रेतरचेतसा । परं मङ्गलसाधकं प्रमाणं न प्रतिपादितम् ।
अत्रोच्यते - नमस्कारो वेदबोधितकर्तव्यताकः अलौकिकाविगीतशिष्टाचारविषयत्वात्, दर्शाद्याचारवद्, इत्यागमप्रमाणं मङ्गलसाधकम् ।
ननु यथा 'ज्योतिष्टोमेन स्वर्गकामो यजेत' 'वृष्टिकामो कारीरं निर्वपेत्' इत्यादिका श्रुतिर्य थोपलभ्यते तथा मङ्गलप्रतिपादिका श्रुतिदर्शनीया, उच्यते-निर्विघ्नसमाप्तिकामो नमस्काराद्याचरेदिति श्रुतिः । अतो मङ्गलं कारणं निर्विघ्नसमाप्तिः फलं तत्र न कोऽपि दोषपोषः ।
ननु शिष्टाचारेण मङ्गलविशेषस्य नमस्कारस्य वेदबोधितकर्तव्यताकत्वं दर्शितम् । तत्र किमिदं शिष्टाचारत्वम् ? । वेदप्रमाणाभ्युपगन्तृपुरुषोत्पाद्यमानत्वं वा, उत उद्देशविशेषतात्वे सति वेदप्रामाण्याभ्युपगन्तृपुरुषोत्पाद्यमानत्वं वा । वेदप्रमाण्याभ्युपगन्तृपुरुषेण वेदमूलकतया स्वीक्रियमाणं वा वेदमूलकतया प्रमीयते प्रमाणं वा । वेदोपदिष्टहेतुभावक्रियात्वं वा । एतेषां पञ्चानां मध्ये कः पक्षः ? ।
न तावत् प्रथमः । तथाविधपुरुषक्रियमाणजलताडनस्यापि शिष्टाचारत्वप्रसङ्गात् । नापि द्वितीयः, घटादेरपि शिष्टाचारप्रसङ्गात् । न तृतीयः अवेदमूलकेऽपि वेदमूलकतया