________________
३०
मङ्गलवादसंग्रह
तथाविधभ्रान्तपुरुषस्वीकारसम्भवेनातिव्यापकत्वात् । नापि तुरीयः । प्रकृते तदसिद्धः, तथाहि-नमस्कारो वेदबोधिता भीष्टोपायताको वेदमूलकतया प्रमीयमाणत्वाद्, इत्यत्र साध्यसमो हेतुः । अत एव न पञ्चमोऽपि । खण्डिताः पञ्चापि पक्षा ।
तथापि क्षीणदोषपुरुषपरिलोकानुकूलतया क्रियमाणत्वं वा, क्षीणदोषपुरूषण प्रतिबन्धकदुरितवारणमुद्दिश्यक्रियमाणत्वं वा, यत्कार्यं प्रति यस्य कारणत्वं अन्वयव्यतिरेकोपजीवनेन गृह्यते तत्कार्यमुद्दिश्य क्षीणदोषपुरुषक्रियमाणत्वं वा, दोषप्रागभावाऽसंकृत यत्किञ्चिद्दोषध्वंसवदाचारत्वं वा शिष्टाचारत्वं वर्तत एव तेन नमस्कारस्य वेदबोधितकर्तव्यताकत्वं युक्तमेवोक्तम् ।
पुनरवादीत् कोऽपि खण्डनमण्डनप्रियः । ननु किमिदं मङ्गलत्वं नाम ? । विघ्नवारणासाधारणकारणत्वं वा, कायिकादित्रिकजातिविशेषत्वं वा, श्रुतौ स्मृतौ वा मङ्गल शब्दाभिधेयत्वं वा, विशेष्यत्वे सति मङ्गलशब्दाभिधेयं वा ? ।
न तावद विघ्नवारकत्वम. अदृष्टादावतिव्यापकत्वात । नापि विघ्नवारणासाधारणकारणत्वम्, गङ्गाजलस्नानादावतिव्यापकत्वात् । नापि कायिकादित्रिकजाति विशेषत्वम् घटपटसंयोगत्वेन सह जातिसाङ्कर्यात् । जातिसङ्करलक्षणन्त्विदं-परस्परात्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यं जातिसार्यम् । भूतत्वमूर्तत्वयोरिव । भूतत्वं; मूर्तत्वं विहायाकाशे तिष्ठति, मूर्तत्वं; भूतत्वं विहाय मनसि वर्तते, तदुभयं च पृथिव्यां वर्तते । तथात्रापि कायिकादित्रिकजातिविशेषत्वं वाचिकादि नमस्कारे वर्तते परं संयोगत्वं नास्ति । घटपटसंयोगे संयोगत्वं वर्तते परं कायिकादित्रिकजातिविशेषत्वं नास्ति । उभयं च शिरसा सह हस्तद्वयमीलनरूपे कायिके मङ्गलविशेषनमस्कारे वर्तते । नापि श्रुतौ स्मृतौ वा मङ्गलशब्दाभिधेयत्वम्, मङ्गलत्वादावतिव्यापकत्वात् । नापि विशेष्यत्वे सति मङ्गलशब्दाभिधेयत्वम् विशेष्यमन्तरेणापि लोके व्यवहारदर्शनात् ।
___ अत्रोच्यते । प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धनिवृत्त्यसाधारणकारणत्वं मङ्गलत्वम् । अतो न कोऽपि दोषः ।
ननु लक्षणे तान्येव पदानि ग्राह्यानि यैः पदैः अतिव्याप्तिरव्याप्तिरसम्भवश्च दोषा निवार्यन्ते, अत इदं लक्षणं पदकृत्य व्याख्येयम् उच्यते, कारणत्वं मङ्गलमित्युक्तेऽपि घटेऽतिव्याप्तिः अतः प्रतिबन्धकेति । तथा दाहप्रतिबन्धकनिवृत्त्यसाधारणकारणे मणौ अतिव्याप्तिरतः प्रारिप्सितेति । तथापि विघ्नेऽतिव्याप्तिस्ततः प्रतिबन्धकान्यस्य सत इति ।
ननु तथापि सम्पूर्णे लक्षणे उच्यमानेऽपि 'सुवर्णं सर्वकामदम्' इति श्रुतिप्रोक्ते सुवर्णदानेऽतिव्याप्तिः इति चेन्न, अत्रासाधारणपदेन श्रुतिभिन्नत्वे सतीति विवक्षितत्वात् ।