________________
२८
मङ्गलवादसंग्रह
कथम् ? प्रध्वंसाभावस्येदं लक्षणं विद्यते, सादिरनन्तः प्रध्वंसाभावः, यस्यादिर्भवति अन्तश्च न भवेत् । यथा मुद्गरादिप्रहारेण भग्ने घटे स एव घटः पुनर्नोत्पद्यते, अत्र तु कादम्बर्यादौ मङ्गलेन विध्वस्ता अपि विघ्ना अन्तरालेन पनरुत्पन्नाः । न च वक्तव्यं कथं ज्ञातं पुनर्विघ्ना उत्पन्ना इति ? कादम्बर्यादौ समाप्तेरदर्शनात्, यद्यन्तराले विघ्ना नोत्पन्ना अभविष्यत् तदा समाप्तिरपि अभविष्यत्, समाप्तिस्तु न जाता अतो विघ्ना विनष्टा अपि समुत्पन्नाः । अतः सान्तत्वेन अनन्तत्वाभावान्न प्रध्वंसाभावः ।
नाप्यत्यन्ताभावः अत्यन्ताभावस्तु तस्य वस्तुनो भवेत् यत्र नाभून्ना भवति न भविष्यति यथा वायौ रूपाभावः, खरे विषाणाभावः, आकाशे कसमाभावः, शशे शृङ्गाभावः । अत्र तु नैवम्, विघ्नाः पूर्वमभूवन् अन्तराले समुत्पद्यन्ते, समुत्पत्स्यन्ते च । पुनरपि अत्यन्ताभावस्त्वयम् । अनादिरनन्तोऽत्यन्ताभावः । अत्र तु मङ्गलेन विघ्नाभावस्योत्पाद्यत्वेन सादित्वान्नात्यन्ताभावः ।
नाप्यन्योऽन्याभावः । अन्योऽन्याभावस्त्वेवम् घटः पटो न भवति, पटो घटो न भवति । तथात्रापि एवं विलोक्यते मङ्गलं विघ्ना न, विघ्ना मङ्गलं न । अत्र त्वेवं नास्ति । मङ्गले सति परस्परविरोधित्वेन विघ्नानां नष्टत्वात् । अतो नाप्यन्योऽन्याभावोऽतश्चतुर्णामभावानां मध्ये [न]कोऽप्यभावश्चेतसि चमत्कारं करोति ।।
___ अत्रोच्यते । ननु प्रागभावात्यन्ताभावान्योन्याभावा न सम्भवन्ति परं प्रध्वंसाभावस्तु भवत्येव ।
अथ च भवद्भिरित्युक्तं विनष्टा अपि विघ्नाः पुनः समुत्पन्ना अतो न प्रध्वंसाभावः तत्तु भ्रान्तिरेवाभवद् भवतां, कादम्बर्यादौ मङ्गले कृते ये विघ्ना विनष्टास्ते तु विनष्टा एव, ये त्वन्तराले पुनः समुत्पन्नाः ते त्वन्ये । अतो विघ्नप्रध्वंसाभावद्वारा समाप्तिः फलम् ।
पुनरप्याह कश्चित्-ननु भो ! समाप्तेः फलत्वे मन्यमाने अन्वयव्यतिरेकाभ्यां व्यभिचारो भवति । यत्र तु कार्यकारणभावसम्बन्धः स्यात् तत्रावश्यं अन्वयव्यतिरेको विलोक्येते । अत्र तु मङ्गलं कारणं समाप्तिः कार्यमिति कार्यकारणभावसम्बन्धोऽस्ति परमन्वयव्यक्तिरेको न स्तः । कथम् ? । अन्वयस्येदं लक्षणं विद्यते सति सद्भावेऽन्वयः । कारणे सति कार्यं भवत्येव । अत्र त्वेवं नास्ति, सत्यपि मङ्गले कादम्बर्यादौ न समाप्तिर्जाता । अतोऽन्वयभिचारः । अथ च व्यतिरेकलक्षणमपीदं वर्तते । असत्यसद्भावो व्यतिरेकः । कारणेऽसति न कार्यसद्भाव इत्यर्थः । अत्र त्वेवं नास्ति, नास्तिकानुष्ठितग्रन्थे असत्यपि मङ्गले कारणे समाप्तिर्दरीदृश्यते । अतो व्यतिरेकव्यभिचारः । तस्मादन्वयतिरेकव्यभिचारसद्भावान्न समाप्तिः फलम् । तस्माद् विघ्नविध्वंसः फलम् । अयं