________________
॥ ॐ ऐं नमः ॥ मङ्गलवादः
॥ ॐ ह्रीं श्रीं क्लीं ऐं श्री पार्श्वनाथाय नमः ॥ ननु भो ! ये विशिष्टशिष्टा भवन्ति ते ग्रन्थारम्भे शिष्टसङ्केतप्रतिपालनाय निर्विघ्नसमाप्त्यर्थं मङ्गलमाचरन्त्येव, ततस्तर्कभाषाकारकः केशवमिश्रोऽपि शिष्टान्तः पाती वर्तते ततस्तेन कथं न मङ्गलं कारितम् ? तत्रोच्यते-ननु मङ्गलं त्रेधा वर्तते कायिकं, वाचिकं मानसिकं च तत्र यद्यप्यत्र वाचिकं मङ्गलं कृतं न दृश्यते तथापि कायिकं मानसिकं वा कृतमित्यनुमीयते । तत्रानुमानम्-इयं तर्कभाषासमाप्तिर्मङ्गलपूविका, समाप्तित्वात् । या या समाप्तिः सा सा मङ्गलपूर्विका, यथा रघुवंशादिसमाप्तिः, तथा चेयं समाप्तिः समाप्तिस्ततो मङ्गलपूर्विकैव इत्यनुमानप्रमाणेनात्र मङ्गलं कृतमिति निश्चीयते ।
अत्राह कश्चिच्चर्चाचञ्चः-ननु भो ! भवद्भिः सद्भिरत्र मङ्गलं साधितं तन्न सङ्गतिमङ्गति, फलप्रमाणयोरभावात् । कथम् ? तदेव वस्तु विधेयं धीधनैर्यस्य फलं यत्साधकं प्रमाणञ्च भवेत् । न हि प्रयोजनमन्तरेण मन्दधियोऽपि प्रवर्तन्ते इति न्यायात् । अतो मङ्गलस्यापि फलं नोपलभ्यते अतस्तद्विधानं न घटामाटीकते । अत्रोच्यते-मैवं वादीमङ्गलस्य फलं महद् वरीवति । ग्रन्थप्रारम्भे मङ्गले कृते सति ये शास्त्रान्तरायकारका विघ्ना भवन्ति तेषां ध्वंसो जायते तद्द्वारा च शास्त्रसमाप्तिर्जायतेऽतः सा समाप्तिरेव फलम् ।
पुनः प्रावादीत् प्रतिवादी प्रौढप्रवादेन-ननु भो ! भवद्भिरित्युक्तं विघ्नध्वंसद्वारा समाप्तिः फलं । तत्र विघ्नध्वंसो = विघ्नाभावः । स कोऽभावः ? अभावश्चतुर्धा वर्तते तत्र किं प्रागभावो वा, प्रध्वंसाभावो वा, उतात्यन्ताभावो वा, आहोस्विदन्योऽन्याभावो वा? । न तावत् प्रागभावः, कथम् ? प्रागभावस्येदं लक्षणं वर्तते, अनादिः सान्तः प्रागभावः, यस्यादिर्न भवति, यस्य चान्तो भवति, यथा मृत्पिण्डे घटप्रागभावः । अत्र तु अयं विघ्नाभावो मङ्गलेन उत्पाद्यो वर्तते, अतो न प्रागभावः । नापि प्रध्वंसाभावः ।