________________
२२
मङ्गलवादसंग्रह भावेऽपि तद्रहितस्यैवाग्निहोत्रस्य फलजनकत्वेन 'श्रौतात्साङ्गाद्' इत्यस्याप्रयोजकत्वाच्च ।
वस्तुतस्तु एतस्य श्रौतत्वाभावेन तादृशनियमस्यात्रावसर एव नास्तीति द्रष्टव्यम् । न च तस्य विघ्नध्वंसफलत्वाभावे तरोधकमानाप्रामाण्यमिति. सति विघ्ने तन्नाशस्य प्रमाणेन फलत्वबोधनादिति । न च तद्बोधकरणेनान्यथासिद्धिरिति, यत्रान्वयव्यतिरेकाभ्यां वेदादिना वा यस्य कारणत्वं क्लुप्तम् अनन्तरं च कारणत्वान्यथानुपपत्त्या द्वारकल्पनं तत्रैव द्वारेण द्वारिणोऽन्यथासिद्धिरिति न्यायावकाशादत्र तु शिष्टाचारविषयत्वेनैव फलकल्पनं, शिष्टाचारविषयकत्वं विघ्नध्वंसफलकत्वेनाप्युपपन्नमिति सर्वं सुस्थम् ।
परे तु 'समाप्तिकामो मङ्गलमाचरेद्' इत्येवंविधानुमित श्रुत्या समाप्तिसाधनत्वेनैव मङ्गलं विहितं, तथैव शिष्टाचारात् । समाप्तिसाधनं साक्षादनु पपन्नामिति, यागा दिवददृष्टद्वारकत्वेन कल्पने तु विघ्नध्वंसानन्तविघ्नध्वंसादिकल्पने च गौरवापत्तेः । स्वतःसिद्धविघ्ना भावस्थले मङ्गलस्य व्यर्थत्वकल्पनापत्तेरनन्तरोत्पन्नविघ्नः समाप्तिप्रतिबन्धापत्तेश्च । किञ्च दुरितध्वंसार्थिप्रवृत्तौ दुरितनिश्चयस्य हेतुत्वेन मङ्गले प्रवृत्त्यनापत्तिः, दुरितस्यातीन्द्रियत्वेन तन्निश्चयस्य तत्र कर्तुमशक्यत्वात् । न च प्रतिबन्धे सति कार्यानुपपत्ते रवश्यं विघ्न ध्वंसस्तत्र वाच्यस्तथा चावश्यकत्वात्तेनैव द्वारत्वोपपत्तावदृष्टकल्पनानुपपत्तिरिति वाच्यम्, यागादिस्थले तस्यावश्यकत्वेन तस्यैतद्वारस्यौचित्यात् । तत्र फलानन्त्यभिया तदकल्पनमिति चेद् अत्रापि तत्तुल्यम्, अत एवेदं प्रधानम्, समाप्तिकाम एव अधिकारी ।
यत्तु मङ्गलं यजतीत्यादिवद् विधिविहितमिति प्रारब्धकर्माङ्गमिति । तत्रालौकिकस्य लौकिकानङ्गत्वात्, प्रधानविध्य भावे एकवाक्यत्वानुपपत्तौ तस्याङ्गविधित्वानुपपतेश्च । तदुक्तम् - 'स्वार्थबोधे समाप्तानामङ्गादिमत्त्वाद्यपेक्षया वाक्यानामेकवाक्यत्वानुपपत्तौ संहत्य जायत' इति । न च यथाकथञ्चित्कृतमङ्गलाददृष्टोपपत्तौ बलवत्तरविघ्नसत्त्वेऽपि समाप्तस्यापत्तिरिति वाच्यम्, प्रतिबन्धकाभावस्य स्वतन्त्रकारणत्वात्, तदभावविशिष्टादृष्टत्वेनैव समाप्ति प्रति कारणाद् वा । न चैवं प्रमत्तानुष्ठितसमाप्त्या व्यभिचार इति वाच्यम्, तत्र तथामङ्गलस्यानुमेयत्वात् । न चैवं समाप्तेर्मङ्गलकार्यत्वे तया तदनुमानम्, अनुमानेन च सति व्यभिचाराग्रहे कार्यत्वसिद्धिरित्यन्योन्याश्रय इति वाच्यम्, एवं हि धूमादिना ग्न्याद्यनुमानानापत्तेः । क्वचिद् विशेषतोऽन्वयव्यतिरेकसहचाराभ्यां कारणत्वग्रहे यद्विशेषणयोरिति न्यायात् सामान्यतः कार्यकारणभावसिद्धिरिति चेद्, अत्र न पाणिपिहितेत्याहुः (?) । तदसत् । श्रुत्यनुमानेन प्रमाणाभावस्यावेदितत्वाद् भावे वा आनुपूर्वीविशेषविशिष्टत्वेन तस्यापि विषयीकर्तुम