________________
मङ्गलवादः, श्रीहरिरामभट्टाचार्यः तर्कवागीशः
२३ शक्यत्वात् । वाक्यत्वेऽपि वा विघ्न ध्वंससाधारण्येव कुतो न स्यात् ? तावतैव शिष्टाचारोपपत्तिसम्भवात् । किञ्च, प्रतिबन्धके सति कार्यानुत्पत्तेर्विघ्नध्वंसं प्रति (मङ्गलस्य) विघ्नध्वंसस्य समाप्ति प्रति चेत्यनेककार्यकारण(त्वा?) भावकल्पने गौरवाद्, अतो लाघवाद् विघ्नध्वंसं प्रति एव मङ्गलस्यैव हेतुत्वम् । स्वतः सिद्धविघ्नाभावस्थले व्यर्थमेव, पापभ्रमेण कृतप्रायश्चित्तवद् दुरितसंशयवतामेवात्राधिकारात्, मङ्गले प्रवृत्तिरपि तत्रानुपपन्नोति ।
इदं च विघ्नध्वंससमसङ्ख्यत्वेन हेतुः । विशेषकार्यकारणभावो वा, अतो न स्वल्पमङ्गलाद् बहुतरविघ्नध्वंसो भवति ।
तच्च मङ्गलं नमस्कारादिभेदेनानेकधा । नमस्कारत्वञ्च न तावद्विघ्नध्वंसजनकत्वम, क(का)लादावतिव्याप्तेश्च । नापि विघ्नध्वंसासाधारण(कारण)त्वम्, विघ्ने ऽतिव्याप्तेः । नापि विघ्नतद्भिन्नत्वविशेषितं तत्, विघ्नध्वंसप्रतिबन्धका भावेऽव्याप्तेः । नापि विघ्नभिन्नात्वे सति विघ्नध्वंसप्रतिबन्धकाभावभिन्नत्वे च सति विघ्नध्वंसासाधारण (कारण)त्वं तत्, वृष्ट्यादिप्रतिबन्धकविघ्नध्वंसासाधारणे कार्यादावतिव्याप्तेः । नापि यथोक्तविशेषणत्वे सति प्रारिप्सितप्रतिबन्धकविघ्नध्वंसासाधारणकारणत्वं तत्, प्रणिक्षेत(?) प्रतिबन्धकविघ्नध्वंसजनकमन्त्रपाद्याजिनादावतिव्याप्तेः ।
न च तस्यापि मङ्गलत्वमिति वाच्यम्, तथा विघ्नव्यवहाराभावाद्, अन्यथा कार्यादेरपि मङ्गलत्वोपपत्तौ तदवारकप्रारिप्सितपदवैयाद, विघ्नध्वंसप्राग भावे - ऽतिव्याप्तेश्च । कारणतावच्छेदकधर्मापरिचये कारणत्वग्रहानुपपत्तेर्मङ्गलमात्रसाधारण्याच्च ।
न च मङ्गलमात्रस्य नमस्कार(ण)त्वम्, तथापि विघ्नव्यवहाराभावात् । न च (कायिकादि)त्रितयसाधारणजातिविशेषत्वम्, नमस्कारत्वसार्यात् । न च गुणजातौ नास्य दोषत्वमिति वाच्यम्, बीजसाम्याद्, इति चेदुच्यते(?)ज्ञानविशेषपूर्वकत्वं प्रतिसन्धाय कायिकादौ न नमस्कारत्वव्यपदेश इति, नागृहीतविशेषणाबुद्धिर्विशिष्टे सम्भवतीति न्यायात् । ज्ञानविशेष एव नमस्कारत्वम्, स च विशेषो मानसत्वव्याप्यो जातिविशेष एवातो न प्रत्यक्षत्वादिना सङ्करः ।
[यत्तु] कायिकाद्यन्यतमत्वं तत्त्वमित्युक्तं शशधरेण, तत्तुच्छम्, कुटिलबुद्ध्या कृतकरशिरःसंयोगादौ नमस्कारव्यवहाराभावाद्, अन्यतमत्वस्य तद्भिन्नभेदापर्यवसानतया प्रत्येकं विनिगमनाविरहाच्च ।
एवं सर्वोत्कृष्टगुणवता प्रतिपादकशब्दत्वं स्तुतित्वम् ।