________________
मङ्गलवादः, श्रीहरिरामभट्टाचार्यः तर्कवागीशः भावादुपेक्ष्यम् ।
ननु मङ्गलस्य समाप्तिहेतुत्वं तदा स्याद् यदि विघ्नध्वंसस्य द्वारत्वं स्यात्, तदेव न सम्भवति । तथाहि-तद्वारत्वं नाम तज्जन्यत्वे सति तज्जन्यजनकत्वम्, तच्च समाप्ति प्रति विघ्नध्वंसस्य जनकत्वे गृहीते सुग्रहम, तदेव न सम्भवति चरमवर्णध्वंसरूपायाः समाप्तेराकाशनिष्ठत्वेन व्यधिकरणत्वात्, न हि व्यधिकरणयोः कार्यकारणभावः सम्भवतीति चेन्न स्वप्रतियोगिचरमवर्णानुकूलकतिमत्त्वसम्बन्धेन समाप्ति प्रति मङ्गलजन्यविघ्नध्वंसस्य हेतुत्वेनोक्तानुपपत्त्यभावादिति केचित्, तन्न, तादृशसम्बन्धेन समाप्ते स्तिकात्मनिष्ठतया तत्र मङ्गलजन्यविघ्नध्वंसाभावेन व्यभिचारा(भि?)पत्तेरिति ।
अत्र ब्रूमः । वेदत्वावच्छिन्नविशेष्यतानिरूपितप्रामाण्यनिष्ठप्रकारताशालिज्ञानसमानाधिकरणस्वप्रतियोग्युत्पत्त्यनुकूलकृतिमत्त्वसम्बन्धेन समाप्तित्वावच्छिन्नं प्रति विशेषणताविशेषेण मङ्गलजन्यविघ्नध्वंसः कारणमित्यनेनैवोक्तातिप्रसङ्गविरहादिति ।।
यद्वा स्वावच्छेदकावच्छिन्नप्रतियोगिकत्व-स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वेन सम्बन्धेन मङ्गलजन्यविघ्नध्वंसविशिष्टसमाप्तित्वावच्छिन्नं प्रति अवच्छेदकतासम्बन्धेन मङ्गलजन्यविघ्नध्वंसः कारणमिति शरीरनिष्ठः कार्यकारणभावः । नास्तिकशरीरेषूपदर्शितोभयसम्बन्धेन मङ्गलजन्यविघ्नध्वंसाभावेनैव विशिष्टाभावसत्त्वादित्याहुः ।
___ अन्ये तु - ज्ञानविशेष एव समाप्तिः । तथा च समवायेन मङ्गलजन्यविघ्नध्वंसविशिष्टसमाप्ति प्रति विशेषणताविशेषेण मङ्गलजन्यविघ्नध्वंसः कारणमित्यात्मनिष्ठ एव कार्यकारणभावः । विघ्नध्वंसनिष्ठत्वं तु स्वाश्रयसमवेतत्वेनेत्याहुः ।।
नव्यास्तु - मङ्गलस्य विघ्नध्वंस एव फलम् । न तूपदर्शितरीत्या समाप्तिर्गौरवात्। समाप्तिश्च प्रतिबन्धकाभावे सति बुद्ध्यादिकारणादेव । न च विनायकस्तवपाठादिना तस्य जायमानत्वेन व्यभिचार इति वाच्यम्, विघ्नध्वंसविशेषे तस्य हेतुत्वात् ।
ननु यत्र स्वतःसिद्धविघ्नाभावः तत्र मङ्गलं व्यर्थम्, न चेष्टापत्तिः, श्रौतात्साङ्गकर्मणः फलावश्यंभावादिति नियमेन तस्य फलवत्त्वे सिद्धे विघ्नाभावेन विघ्नध्वंसफलकत्वासम्भवात्, समाप्तेस्तु दर्शनात् तस्या एव फलत्वमिति चेन्न, समाप्तेरपि साक्षात्फलासम्भवाद्, द्वारस्या भावात् भवन्मते ऽपि व्यर्थताया अपरिहार्यत्वात् । 'यावज्जीवमग्निहोत्रं जुहुयाद्' इत्यादौ किञ्चिदङ्गविकलस्याऽऽहिताग्नेविध्युत्क्रमणा(?)द्य