________________
मङ्गलवादसंग्रह वस्तुतस्तु एवं सति कृतिसाध्यताज्ञानस्यापि प्रवर्तकत्वेन तस्याप्यनुमितिविषयत्वापत्तिः । तस्य मानसीयत्वसम्भवे तु विशिष्टसाध्यकारणं नियुक्तिकमुत्पश्यामः ।
एवञ्चोक्तानमानेन सफलत्वे सिद्धे मङ्गलं न समाप्तीतरफलकं. तत्कामनां विनापि क्रियमाणत्वाद् इत्यनुमाने न समाप्तीतराफलत्वसिद्धौ, मङ्गलं समाप्ति फलकं समाप्तीतराफलकत्वे सति सफलत्वाद् इति परिशेषानुमानेन समाप्तिफलकत्वसिद्धिः । न च नास्तिकादिग्रन्थे मङ्गला भाववति समाप्तिसत्त्वे न परिशेषानुमानसिद्धिरिति वाच्यम्, तत्रापि जन्मान्तरीयमङ्गलकल्पनात् । न च तस्य संदिग्धत्वेन व्यभिचारज्ञानकाले कथमनुमानावतार इति वाच्यम्, व्यभिचारज्ञानस्य साध्यसंशयपर्यवसन्नतया अनुमितौ तस्याविरोधित्वात्, व्यभिचारनिश्चयस्य तत्रासत्त्वात् । कादम्बर्यादिग्रन्थे मङ्गलस्यासाङ्गत्वकल्पनेन बलवत्तरप्रतिबन्धकस्य वा सत्त्वेन समाप्त्य भाव इति न तत्रापि व्यभिचारः। मङ्गलस्याशुतरविनाशितया समाप्तिफलकत्वासम्भवेन विघ्नध्वंसद्वारा समाप्तिफलकत्वं बोध्यम् ।
केचित्तु-मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगीतशिष्टाचारविषयत्वाद् दर्शवदिति प्रयोगः । एवं वेदबोधितकर्तव्याकत्वे सिद्धे तेनैव तस्य सफलत्वलाभः । अलौकिकपदं भोजनादौ व्यभिचारवारणाय । रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतपदम् । चैत्यवन्दनादौ व्यभिचारवारणाय शिष्टपदमिति आहुः । तदसत् । सायमित्यादिना भोजनाद्याचारस्यापि वेदबोधितत्वेन तद्वारकालौकिकपदवैयर्थ्यात् । चैत्यवन्दनस्यापि 'कष्टं कर्म' इति न्यायाद् बलवदनिष्टाननुबन्धित्वरूपाविगीतत्वाभावेन तद्वारकशिष्टपदवैयर्थ्याच्च । अत एव भोजनस्य रागतः प्राप्तत्वेन कालांश एवायं नियमविधिरूप आश्रीयते तथापि न क्षतिः । न च धर्मशास्त्रानिषिद्धत्वमेवाविगीतत्वं तच्च निष्फलत्वेऽप्यस्तीति तद्वारणाय शिष्टपदमिति वाच्यम्, तस्यापि 'न विप्रः क्षणिको भवेद्' इत्यादिना धर्मशास्त्रनिषिद्धत्वात् । न च नोपादेयमिति वाच्यम्, तथा सत्यवशिष्टहेतुनैव सफलत्वसाधनोपपत्तौ अलं श्रुतिमनुमाय तया फलबलकल्पनेन ।
ननु एवं तादृशहेतुना मङ्गलस्य सफलत्वसाधने ऽनुमाने अप्रयोजकत्वशङ्का स्यादतस्तत्कल्पनमिति चेन्मैवम्, श्रुतिसाधकानुमानेऽप्यप्रयोजकत्वशङ्काया अपरिहार्यत्वात् । किञ्च श्रुतेः स्वातन्त्र्येण प्रामाण्यवत्तयानुमानेऽप्यप्रामाण्यशङ्काया अभावाद्, अन्यथा निष्कंपा प्रवृत्तिः कुत्रापि न स्यात्, सर्वत्र श्रुतिकल्पनापाताच्च ।
यत्तु शशधरेण व्याप्तिबलेनैव श्रुतिकल्पनमित्युक्तं तत्तु व्याप्तावनुकूलतर्का