________________
मङ्गलवादः
ननु मङ्गलं न समाप्तिसाधनम्, मङ्गले सत्यपि कादम्बर्यादिग्रन्थासमाप्तेः, मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेरन्वयतो व्यतिरेकतश्च व्यभिचारात् । नापि विघ्नध्वंससाधनम्, मङ्गलं विनापि तस्य विनायकस्तवपाठादिना जायमानत्वेन व्यभिचारात् तस्मान्मङ्गलं निष्फलमेवेति चेद्, अत्राहुः-मङ्गलं सफलम् अविगीतशिष्टाचारविषयत्वाद् इत्यनुमानेन मङ्गलस्य सफलत्वसिद्धिः । सफलत्वञ्चात्र बलवदनिष्टाननुबन्धीष्टफलकत्वम् । अविगीतत्वञ्च बलवदनिष्टाननुबन्धित्वम् । तच्च स्वजन्येष्टापेक्षयाधिकानिष्टजनकं यद् यद् तद्तद्भिन्नत्वम् । न तु वेदानिषिद्धत्वमविगीतत्वम् दूरस्थसरोऽवगाहने दैवान्मरणफलकाश्वमेधीयतुरगरक्षणे च व्यभिचारात् । शिष्टत्वञ्चेष्टसाधनत्वांशेऽभ्रान्तत्वं; न तु सर्वांशे; तथा सति अविगीतपदवैयर्थ्यांपत्तेः । आचारविषयत्वं तु साध्यत्वेन फलान्यत्वेन वा कृतिविषयत्वं, न तु क्रियाविषयत्वं, क्रियायाः सविषयत्वाभावात् ।
तथा च हेतावविगीतपदवैयापत्तिवारणाय सफलत्वं तादृशं विवक्षितम् । परदारगमनादौ व्यभिचारवारणाय अविगीतपदम् । निष्फले कर्मणि जलताडनादौ व्यभिचारवारणाय शिष्टपदम् । नावन्मात्रं फलेऽपि गतमतः साध्यत्वेन फलान्यत्वेन वा कृतिविषयत्वं विवक्षितमिति मिश्राः ।
रुचिदत्तमिश्रास्तु यथा श्रुतमविगीताचारविषयत्वाच्छिष्टाचारविषयत्वाद्वेति हेतद्वयम् अविगीतत्वं धर्मशास्त्रनिषिद्धत्वम् । न च द्वितीयेऽगम्यागमनादौ व्यभिचारस्तत्रापि यत्न सत्त्वात् । यदि च तस्य आचरणीयत्वमावश्यकं तदा प्रवर्तकज्ञानांशेऽभ्रान्तत्वं विवक्षणीयम् । न च प्रथमे हेतौ निष्फले कर्मण्यनैकान्तिकत्वमिति वाच्यम्, तस्यापि 'वृथा कर्म न कुर्वीत' इत्यादिना निषेधादित्याहुः ।
अत्र वदन्ति-ग्रन्थादौ मङ्गलबन्धस्तु शिष्यप्रवृत्तिनिबन्धनम् । शिष्यप्रवृत्तिस्तु बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानादिति विशिष्टसाध्यपक्ष एव श्रेयानिति टीकाकृतः ।