________________
१४
मङ्गलवादसंग्रह
रमणीयम्, मङ्गलं विनाऽपि विघ्नध्वंसस्य प्रायश्चित्तादितो भावेन व्यभिचारात् ।
न च प्रायश्चित्ताद्यनाश्यविघ्नध्वंसे मङ्गलं हेतुरतो न दोष इति वाच्यम्, प्रायश्चित्तादीनामपि मङ्गलाद्यनाश्यविघ्नध्वंसं प्रति हेतुत्वेऽन्योन्याश्रयात् ।
(शङ्का) 'विघ्नो मा भूत्' इति कामनया प्रवृत्तेविघ्नप्रागभाव एव मङ्गलफलमित्यपि न पेशलं वचनम्, प्रागभावस्यासाध्यत्वात्, स्वत आगन्तुकस्य समयविशेषस्य सम्बन्धरूपस्य तत्परिपालनस्यापि मङ्गलासाध्यत्वात् ।।
(शङ्का) शिष्टाचारपरिपालनं मङ्गलफलमित्यपि वार्तम्, तत्परिपालनस्यादृष्टद्वाराभीप्सितसिद्धिहेतुत्वे मङ्गलस्यैवादृष्टार्थत्वौचित्यात्, विघ्नमविनाश्य धर्मविशेषस्य समाप्त्यहेतुत्वे विघ्नानाशस्यैवाऽऽवश्यकत्वाच्च ।
किं च, शिष्टाचारेण विधिबोधितकर्तव्यत्वमनुमाय मङ्गले प्रवृत्तिरेव तत्परिपालनम्, न सा तत्फलं, किन्तु तज्जनिकेति ।
न चाचारप्राप्तातिलङ्घने प्रत्यवायस्मरणात् प्रत्यवायित्वपर्यवसन्नाशिष्टत्वशङ्कानिरास एव तत्फलं तत्परिपालनमिति वाच्यम्, तादृशशङ्कायाः शिष्यावधानप्रतिपक्षत्वेऽपि समाप्त्यप्रतिपक्षत्वात्, ‘कामनाविशेषनियतकर्तव्यताकस्य मङ्गलस्य तदभावेनाऽकरणेऽपि न प्रत्यवायः' इति विशेषदर्शनेन तच्छङ्कानिवृत्तेश्च । तस्माद् मङ्गलं निष्फलमिति चेत् ?
अत्रोच्यते - विघ्नध्वंस एव मङ्गलं हेतुः, न चोक्तव्यभिचारः, प्रायश्चित्तादीनामपि मङ्गलत्वात् । 'प्रारिप्सितप्रतिबन्धकदुरितनिवृत्त्यसाधारणकारणं मङ्गलम्' इति हि तल्लक्षणं परैर्गीयते, तत्र चास्माभिलाघवात् 'प्रारिप्सितप्रतिबन्धक' इति विशेषणं त्यज्यत इति। तदिदमुक्तमाकरे- स्वाध्यायादेरपि मङ्गलत्वाविरोधाद्' इति ।।
(शङ्का) तथाऽपि नानेन रूपेण हेतुत्वम्, आत्मा श्रयात्, किन्तु नतित्वादिना प्रातिस्विकरूपेणैव, इति व्यभिचार एवेति चेत् ? न, नत्याद्यभिव्यङ्ग्यभावविशेषस्यैव निश्चयतो दुरितक्षयहेतुत्वात्, निकाचितकर्मणश्चानपर्वतनीयत्वाद् न बलवतो विघ्नस्य नाशः ।
(शङ्का) परे तु विघ्नध्वंस-तत्प्रागभावपरिपालन-समाप्तिप्रचयगमन-शिष्टाचारपरिपालनानां सर्वेषामेवाऽविनिगमाद् मङ्गलफलत्वम्, तत्तत्कामनया शिष्टाचारेण तत्तत्फलकत्वोन्नयनात्, "अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात्' (जैमि० १-३१. स्मृति भने शिष्टाया२ द्वा२श्रुतिर्ने अनुमान ४२१। मिनिसू। (१।३ १५) डोमाथि६२५॥
ન્યાય નિશ્ચિત કરવામાં આવ્યો છે. જેમ કોઈ પ્રદેશમાં હોળીનું પર્વ પ્રચલિત છે. તેને જોઈ