________________
मङ्गलवादः
इह खलु निखिलं जगदज्ञानध्वान्तनिरस्ताऽऽलोकमवलोकमानस्तदुपचिकीर्षुर्भगवान् 'हरिभद्रसूरिः' प्रकरणमिदमारब्धवान् । तत्रादौ प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरन् प्रेक्षावत्प्रवृत्तयेऽभिधेयमाह - प्रणम् ।
-
अथ समाप्तिमात्रे मङ्गलं न हेतु:, कादम्बरी - नास्तिकानुष्ठितयोरन्वयव्यतिरेकाभ्यां व्यभिचारात् ।
न च स्वसमसङ्ख्यविघ्नस्थलीयसमाप्तौ मङ्गलं हेतुः नास्तिकानुष्ठितस्थले च जन्मान्तरीयमङ्गलादेव समाप्तिरिति वाच्यम्, विघ्नाधिकसङ्ख्यमङ्गलस्थले समाप्त्यभावप्रसङ्गात् । न च स्वानधिकन्यूनसङ्ख्यविघ्नस्थलीयत्वं निवेश्यम्, यत्र दश विघ्नाः पञ्च च प्रायश्चित्तेन नाशिताः, पञ्च च मङ्गलानि, तत्र समाप्त्यभावप्रसङ्गात् । न च प्रायश्चित्ताद्यनाश्यस्वानधिकसङ्ख्यविघ्नस्थलीयत्वं निवेश्यम्, बलवतो विघ्नस्य बहुभिरपि मङ्गलैरनाशात्, बलवता मङ्गलेन बहूनामपि विघ्नानां नाशाच्च ।
किञ्च विघ्नः समाप्तौ विशेषणम् उपलक्षणं वा ? नाद्यः, विघ्नस्यापि जन्यत्वापत्तेः, नान्त्यः, नियतोपलक्ष्यतावच्छेदकाभावादिति दिक् ।
(शङ्का) 'आवश्यकत्वाद् विघ्नध्वंस एव मङ्गलफलम्, समाप्तिस्त्वसति प्रतिबन्धे स्वकारणादेव भवति, १कारीरीत इवावग्रहनिवृत्तौ वृष्टिः । ' निर्विघ्नं परिसमाप्यताम्' इति कामनाऽपि 'सविशेषणे हि० २ इतिन्यायाद् विघ्नध्वंसमात्रावगाहिनी' - इत्यपि मतं न
૧. કારીરી એક લઘુયજ્ઞ (ઇષ્ટિ) છે. જેનું અનુષ્ઠાન વરસાદ માટે થાય છે. કરીર એક લતાનું गंडुर छे. कारीर्या वृष्टिकामो यजेत ॥ श्रुतिथी तेनुं विधान थयुं छे.
२. सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः ।